________________
योग
शास्त्रम्
॥ १५१ ॥
पोरगीतेन तौ ततः । अगायतां तारतारमलङ्घया भवितव्यता ॥ ४२ ॥ आकर्ण्य कर्णमधुरं तद्गीतं युवनागरैः । मधुवन्मक्षिकाभिस्तौ मातङ्गौ परिवारितौ ॥४३॥ कावेताविति विज्ञातुं लोकैः कृष्टावगुण्ठनौ । अरे तावेक मातङ्गावित्याक्षेपेण भाषितौ ॥ ४४ ॥ नागरैः कूटयमानौ तौ यष्टिभिर्लोष्टुभिस्ततः । श्वानाविव गृहात्पूर्या (र्याः) नतग्रीव निरीयतुः ॥ ४५ ॥ तौ सैन्यशशवल्लोकैर्हन्यमानौ पदे पदे । स्खलत्पादौ कथमपि गम्भीरोद्यानमीय : ॥४६॥ तावचिन्तयतामेवं धिग् नौ दुर्ज्ञातिदुषितम् । कलाकौशलरूपादि पयो घातमिवाहिना ॥४७॥ उपकारो गुणैरास्तामपकारोऽयमावयोः । तदिदं क्रियमाणायाः शान्तेर्वेताल उत्थितः || ४८|| कलालावण्यरूपाणि स्यूतानि वपुषा सह । तदेवानर्थसदनं तृणवत्त्यज्यतां क्षणात् ||४९ || इति निश्चित्य तौ प्राणपरिहारपरायणौ । मृत्युं साक्षादिव द्रष्टुं चेलतुर्दक्षिणामभि ॥ ५० ॥ ततौ दूरं प्रयातौ तौ गिरिमेकमपश्यताम् । यत्रारूढैर्भुवीक्ष्यन्ते करिणः किरिपोतवत् ||५१|| भृगुपातेच्छया ताभ्यामारोहद्भ्यां महामुनिः । ददृशे पर्वते तस्मिन् जङ्गमो गुणपर्वतः ॥५२॥ प्रावृषेण्यमिवाम्भोदं मुनिं गिरिशिरः स्थितम् । दृष्ट्वा प्रणष्टसन्तापप्रसरौ तौ बभूवतुः ||५३|| तौ प्राग्दुःखामिवो ज्ज्ञन्तावानन्दाश्रुजलच्छलात् । तत्पादपद्मयोर्भुङ्गाविव सद्यो निपेततुः ॥ ५४ ॥ समाप्य मुनिना ध्यानं कौ युवां किमिहागतौ । इति पृष्टौ स्ववृत्तान्तं तावशेषमशंसताम् ||५५ || स ऊचे भृगुपातेन वपुरेव हि शीर्यते । शीर्यते नाशुभं कर्म जन्मान्तरशतार्जितम् ॥ ५६ ॥ त्याज्यं वपुरिदं वां चेद् गृहणीतं वपुषः फलम् । तच्चापवर्गस्वर्गादिका रणं परमं तपः ||५७|| इत्यादिदेशनावाक्यसुधानिधैतमानसौ । तस्य पार्श्वे जगृहतुर्यतिधर्ममुभावपि ॥५८॥ अधीयानौ क्रमेणाथ तौ गीतार्थो बभूवतुः । आदरेण गृहीतं हि किं वा न स्यान्मनस्विनाम् ॥५६॥ षष्ठाष्टमप्र
30209OOD
द्वितीय
प्रकाशः
॥। १५१ ।।