________________
योग
द्वितीय प्रकाशः
शास्त्रम्
॥१५॥
जनो हि जीवितव्यार्थी तनास्ति न करोति यत् ॥२४॥ विचित्राश्चित्रसम्भूतौ स तथाऽध्यापयत् कलाः । रेमे नुरक्तया साई मातङ्गपतिभार्यया ॥२५॥ ज्ञात्वा तद्भूतदत्तेनारेमे मारयितुं स तु । सहते कः स्वदारेषु पारदारिकविप्लवम् ॥२६॥ ज्ञात्वा मातङ्गपुत्रभ्यां स दृरेणापसारितः । सैवास्मै दक्षिणा दत्ता प्राणरक्षणलक्षणा ॥२७॥ ततो निःमृत्य नमुचिर्गतवान् हस्तिनापुरे । चक्रे सनत्कुमारेण सचिवश्चक्रिणा निजः ॥२८॥ इतश्च चित्रसम्भूतौ बभतुर्नवयौवनौ । कुतोऽपि हेतोरायातौ पृथिव्यामाश्विनाविव ॥२९॥ तौ स्वादु जगतुर्गीतं हाहाहूहूपहासिनौ । वादयामासतुर्वीणामतितुम्बुरुनारदौ ॥३०॥ गीतप्रबन्धानुगतैः सुव्यक्तैः सप्तभिः स्वरैः । तयोर्वादयतोर्वेणुं किं. करन्ति स्म किन्नराः ॥३१॥ मुरज धीरघोष तौ वादयन्तौ च चक्रतुः। गृहीतमुरकंकालातोद्यकृष्णविडम्बनाम् ।। ॥३२॥ शिवः शिवोर्वशीरम्भामुज्जकेशीतिलोत्तमाः । यन्नाटयं न विदाञ्चक्रुस्तौ तदप्यभिनिन्यतुः ॥३३॥ सर्व गन्धर्वसर्वस्वमपूर्व विश्वकार्मणम् । प्रकाशयद्भयामेताभ्यां न जहे कस्य मानसम् ॥३४॥ तस्यां पुरी प्रववृते कदाचिन्मदनोत्सवः । निरीयुः पौरचर्चर्य्यस्तत्र संगीतपेशलाः ॥३५॥ चर्चरी निर्ययौ तत्र चित्रसम्भूतयोरपि । जग्मुस्तत्रैव तद्गीताकृष्टा पौरा मृगा इव ॥३६।। राज्ञो व्यज्ञपि केनापि मातङ्गाभ्यां पुरीजनः । गीतेनाकृष्य सर्वोऽयमात्मवन्मलिनः कृतः ॥३७॥ क्ष्मापेनापि पुराध्यक्षः साक्षेपमिदमाज्ञपि । न प्रवेशः प्रदातव्यो नगर्यामनयोः कचित् ॥३८॥ ततःप्रभृति तौ वाराणस्या दूरेण तस्थतुः । प्रवृत्तश्चैकदा तत्र कौमुदीपरमोत्सवः ॥३९॥ राजशासनमुल्लङ्घन्य लोलेन्द्रियतया च तौ । प्रविष्टौ नगरी भृङ्गौ गजगण्डतटीमिव ॥४०॥ उत्सवं प्रेक्षमाणौ तौ सर्वाङ्गीणावगुण्ठनौ । दस्युवनगरीमध्ये छन्नं छनं विचरतुः ॥४१॥ क्रोष्टुवत्क्रोष्टुशब्देन
RCES
॥१५ol