________________
योगशास्त्रम् ॥१४॥
द्वितीय प्रकाश
चतुर्विधस्य धर्मस्य चतख इव मूर्तयः॥७॥ व्रतं ते पालयन् सम्यक किन्तु द्वौ तत्र चक्रतुः। धर्मे जुगुप्सा चित्रां हि चित्तवृत्तिः शरीरिणाम् ।।८॥ जग्मतुस्तपसा तौ द्यां जुगुप्साकारिणावपि । स्वर्गाय जायतेऽवश्यमप्येकाहः कृतं तपः ॥९॥ च्युत्वा ततो दशपुरे शाण्डिल्यब्राह्मणाबुभौ । युग्मरूपौ सुतौ दास्यां जयवत्यां बभूवतुः । ॥१०॥ तौ क्रमाद्यौवनं प्राप्तौ पित्रादिष्टौ च जग्मतुः । रक्षितुं क्षेत्रमीय हि दासेराणां नियोजनम् ॥११॥ तयोः शयितयोर्नक्तं निःसृत्य वटकोटरात् । एकः कृष्णा हिना दष्टः कृतान्तस्येव बन्धुना ॥१२॥ ततः सर्पोपलम्भाय द्वितीयोऽपि परिभ्रमन् । वैरादिवाशु तेनैव दष्टो दुष्टेन भोगिना ॥१३॥ तावनाप्तप्रतीकारौ वराको मृत्युमापतुः । यथाऽऽयातौ तथा यातौ निष्फलं जन्म धिक्तयोः ॥१४॥ कालिञ्जरगिरिप्रस्थे मृग्या यमलरूपिणौ । मृगावजनिषातां तौ ववृधाते सहैव च ॥१५॥ प्रीत्या सहचरन्तौ तौ मृगौ मृगयुणा हतौ । बाणेनैकेनैककालं कालधर्ममुपेयतुः ॥१६॥ ततोऽपि मृतगङ्गायां राजहंस्या उभावपि अजायेतां सुतौ युग्मरूपिणौ पूर्वजन्मवत् ॥१७॥ क्रीडन्तावेकदेशस्थौ धृत्वा जालेन जालिकः । ग्रीवा भक्त्वा ऽवधीद्धर्महीनानां हीदृशी गतिः ॥१८॥ वाराणस्यां ततोऽभूतां भूतदत्ताभिधस्य तौ । महाधनसमृद्धस्य मातगाधिपतेः सुतौ ॥१९॥ चित्रसम्भूतनामानौ तौ मिथः स्नेहशालिनौ । न कदापि व्ययुज्येतां सम्बद्धौ नखमांसवत् ॥२०॥ वाराणस्यां तदा चाभूच्छङ्घ इत्यवनीपतिः। आसीच्च सचिवस्तस्य नमुचिर्नाम विश्रुतः ॥२१॥ अपरेद्यः सोऽपराधे महीयसि महीभुजा । अर्पितो भूतदत्तस्य प्रच्छन्नवधहेतवे ॥२२॥ तेनोचे नमुचिश्छन्नं त्वां रक्षामि निजात्मवत् । पाठयस्यात्मजौ मे त्वं यदि भूमिगृहस्थितः॥२३॥ प्रतिपन्नं नमुचिना तन्मातङ्गपतेर्वचः।
॥१४॥