________________
योगशास्त्रम्
द्वितीय प्रकाश
૨૪૮
स्त्यश्वपदातिय॒हलोहितः वाहयन् वाहिनिनव्याः स प्राक् प्राचीमसाधयत् ॥९४॥ स च्छिन्नाने कसुभटमुण्डमण्डितभूतलः । दक्षिणाशां दक्षिणाशापतिरन्य इवाजयत् ॥९५॥ भटास्थिभिर्दन्तुरयन् शुक्तिशखैरिवाभितः । रोधो नीरनिधेः सोऽथ प्रतीचीमजयदिशम् ॥९६॥ हेलोद्घाटितवैताढयकन्दरः स्थाममन्दरः। म्लेच्छान्विजेतुं भरतोत्तरखण्डं विवेश सः ॥९७॥ उच्छलच्छोणितरसच्छटाच्छुरितभूतलः । म्लेच्छांस्तत्राथ सोऽभाक्षीदिसूनिव महाकरी ॥९८॥ एवं चतुर्दिश भ्राम्यन् घरदृश्वणकानिव । दलयन् सुभटानुीं स पट्खण्डामसाधयत् ॥९९॥
उज्जासंयन्त्रसुमतामिति नित्यरौद्रध्यानानलेन सततं ज्वलदन्तरात्मा । : आसाद्य कालपरिणामवशेन मृत्यु, तां सप्तमी नरकभूमोमगात्सुभूमः ॥१०॥
इति सुभूमचक्रवर्तिकथानकम् ॥ अथ ब्रह्मदत्तकथा
साकेतनगरे चन्द्रावतंसस्य सुतः पुरा । नामतो मुनिचंद्रोऽभूञ्चन्द्रवन्मधुराकृतिः ॥१॥ निर्विण्णः कामभोगेभ्यो भारेभ्य इव भारिकः। मुनेःसागरचन्द्रस्य पार्श्वे जग्राहस व्रतम् ॥२॥ प्रव्रज्यां जगतः पूज्यां पालयन्नयमन्यदा । देशान्तरे विहाराय चचाल गुरुणा सह ॥३॥ स तु भिक्षानिमित्तेन पथि ग्रामं प्रविष्टवान् । सार्थाद्मष्टोऽटवीमाट यूथच्युत इवैणक ॥४॥ स तत्र क्षुप्तिपासाभ्यामाक्रान्तो ग्लानिमागतः। चतुर्भिः प्रतिचरितो पल्लभवैर्वान्धवैरिव ॥५॥ स तेषामुपकाराय निर्ममे धर्मदेशनाम् । अपकारिष्वपि कृपा सतां कि नोपकारिषु ॥६॥ प्रवव्रजुस्ते तत्पाधैं चत्वारः शमशालिनः ।
॥१४८॥