________________
योगशास्रम्
द्वितीय प्रकाश
॥१४॥
कारयामास सत्रागारमवारितम् । धुरि सिंहासनं तत्रास्थापयत्स्थालमग्रतः ॥७८॥ अथाश्रमे प्रतिदिनं लालयद्भिस्तपस्विभिः। निन्येऽङ्गणदुन इव मुभूमो वृद्धिमभूताम् ॥७९॥ विद्याधरो मेघनादोऽन्येधुनैमित्तिकानिति । परिपप्रच्छ पद्मश्रीः कन्या मे कस्य दीयताम् ॥८०॥ तस्या वरं वरीयांसं सुभूमं तेऽप्युपादिशन् । दत्वा कन्यां ततस्तस्मै तस्यैवाभूत्स सेवकः॥८१।। कूपभेक इवानन्यगोऽथ पप्रच्छ मातरम् । सुभूमः किमियानेव लोकोऽयमधिकोऽपि किम् ॥८२।। माताप्यचीकथदथो लोकोऽनन्तो हि वत्सक । मक्षिकापदमानं हि लोकमध्येऽयमाश्रमः ॥८३।। अस्मिम् लोकेऽस्ति विख्यातं नगरं हस्तिनापुरम् । पिता ते कृतवीर्योऽभूत्तत्र राजा महाभुजः ॥८५॥ हत्त्वा ते पितरं रामो राज्यं स्वयमशिश्रियत् । क्षिति निक्षत्रियां चक्रे तिष्ठामस्तद्भयादिह ॥८५॥ तत्कालं हस्तिनापुरे सुभूमो भौमवज्ज्वलन् । जगाम वैरिणे क्रुद्धः, क्षानं तेजो हि दुर्द्धरम् ।।८६॥ तत्र सो ययौ सिंह इव सिहासनेऽविशत् । दंष्ट्रास्ताः पायसीभूताः सुभुजो बुभुजे च सः ॥८७॥ उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः। जनिरे मेघनादेन व्याघ्रण हरिणा इव ॥८८॥ प्रस्फुरदंष्ट्रिकाकेशो दशनैरधरं दशन् । ततो रामः क्रुधा कालपाशाकृष्ट इवाययौ ॥८९॥ रामेण मुमुचे रोषात्सुभूमाय परश्वधः। विध्यातस्तत्क्षणं तस्मिन् स्फुलिङ्ग इव वारिणि ॥९०॥ अखाभावात्सुभूमोऽपि दंष्ट्रास्थालमुदक्षिपत् । चक्रीवभूव तत्सद्यः किं न स्यात्पुण्यसम्पदा ॥९१॥ चक्रवर्त्यष्टमः सोऽथ तेन चक्रण भास्वता । शिरः परशुरामस्य पङ्कजच्छेदमच्छिदत् ॥९२॥ क्षमां निःक्षत्रियां रामः सप्तकृत्वो यथा व्यधात् । एकविशतिकृत्वस्तां तथा निर्वाह्मणामसौ ॥९३।। क्षुण्णक्षितिपह
(१) मङ्गलग्रहवत्.
॥१४॥