________________
योगशास्रम्
द्वितीय प्रकाशः
॥१४६॥
द्विपः ॥६०॥ तापसानां कृतत्रासः समादाय गवादि सः। मन्दं मन्दं परिक्रामन् केसरीब न्यवर्तत ॥६१॥ त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाधावत्साक्षादिवान्तकः ॥६२॥ सुभटग्रामसंग्रामकौतुकी जमदग्निजः । पशुना खण्डशश्चक्रे दारुवदारुणेन तम् । ॥६३॥ सज्ये निवेशयाञ्च तस्य प्रकृतिपूरुषैः। कृतवीर्यों महावीर्यः स एव तु वयोलघुः॥६४॥स तु मातृमुखाच्छुत्ता मृत्युव्यतिकरं पितुः । आदिष्टाहिरिवागत्य जमदग्निममारयत् ॥६५॥ रामः पितृवधक्रुद्धो द्राग्गत्वा हस्तिनापुरे । अमारयत्कृतवीय किं यमस्य दवीयसि ॥६६॥ जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ॥६७॥ रामाक्रान्तपुराद्राज्ञी कृतवीयस्य गुर्विणी व्याघ्राघ्रातवनादेवागमत्तापसाश्रमम् ॥६८॥ कृपाधने भूगृहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात्परशुरामतः ॥६९॥ चतुर्दशमहास्वमसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमि सुखेनाभूत्सुभूमो नामतस्ततः ॥७०॥ क्षत्रियो यत्र यत्रासीत्तत्र तत्राप्यदीप्यत । पशुः परशुरामस्य कोषाग्निरिव मूर्तिमान् ॥७१॥ रामोऽगादन्यदा तत्राश्रमे पशुश्च सोऽज्वलत् । क्षत्रं चासूचयद्धम इव धूमध्वजं तदा ॥७२॥ किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे ॥७३॥ रामोऽप्यमर्षानिःक्षत्रां सप्तकृत्वो वसुन्धराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः ॥७४॥ क्षुण्णक्षत्रियदंष्ट्राभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णापात्रश्रियं दधत् ॥७५॥ रामः पप्रच्छ नैमित्तानन्येद्य, कुतो बधः । सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् ॥७॥ यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोक्ष्यतेऽमृस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् ॥७७॥ रामोऽथ
॥१४६॥