________________
योगशास्त्रम्
द्वितीय प्रकाशः
॥१४५॥
मदग्निमुनिस्ततः यथावदुपयेमे तां भूतेश इव पार्वतीम् ॥४३॥ ऋतुकाले स ऊचे तां चरु ते साधयाम्यहम् । यथा ब्राह्मणमूर्द्धन्यो धन्य उत्पद्यते सुतः ॥४४॥ सोवाच हस्तिनापुरेऽनन्तवीर्यस्य भूपतेः । पत्न्यस्ति मत्स्वसा तस्यै चरुः क्षात्रोऽपि साध्यताम् ॥४५॥ ब्राह्म सधर्मचारिण्यै क्षात्रं तज्जामयेऽपरम् । स चरुं साधयामास पुत्रीयमुपजीवितुम् ॥४६॥ साचिन्तयदहं तावदभूवमटवीमृगी । मा भून्मादृक् सुतोऽपीति क्षात्रं चरुमभक्षयत् ॥४७॥ साऽदाब्राह्मं चरु स्वखे जातौ च तनयौ तयोः । तत्र रामो रेणुकायाः कृतवीर्यश्च तत्स्वसुः ॥४८॥ क्रमेण ववृधे राम ऋषित्वे पैतृकेऽपि सः । क्षात्र प्रदर्शयंस्तेजो हुताशनमिवाम्भसि ॥४९॥ विद्याधरोऽन्यदा तत्त्र कोऽप्यागादतिसारकी । विद्या तस्यातिसाराा विस्मृताकाशगामिनी ॥५०॥ रामेण प्रतिचरितो भेषजायेः स बन्धुवत् रामाय सेवमानाय विद्यां पारशवीं ददौ ॥५१।। मध्येशरवणं गत्वा तां च विद्यामसाधयत् । रामः परशुरामोऽभूत्ततः प्रभृति विश्रुतः ॥५२॥ अन्येयुः पतिमापृच्छय रेणुकोत्कण्ठिता स्वसुः। जगाम हस्तिनपुरे प्रेम्णो दूरे न किश्चन ॥५३॥ श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनन्तवीर्योऽरमयकामः कामं निरङ्कुशः ॥५४॥ ऋषिपत्न्या तया राजाहल्ययेव पुरन्दरः । अन्वभूच्च यथाकामं सम्भोगसुखसम्पदम् ॥५५॥ अनन्तवीत्तिनयो रेणुकायामजायत । ममतायामिवोतथ्यः सधर्मिण्यां बृहस्पतेः ॥५६॥ तेनापि सह पुत्रेण रेणुकामानयन्मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वीक्षते ॥५७॥ तां पुत्रसहितां वल्लीमकालफलितामिव । सञ्जातकोपः परशुरामः परशुनाऽच्छिनत् ॥५८॥ तद्भगिन्या स वृत्तान्तोऽनन्तवीर्यस्य शंसितः । कोपनुद्दीपयामास कृशानुमिव मारुतः ॥५९॥ ततश्चावार्यदोर्वीर्योऽनन्तवीर्यों महीपतिः। जमदग्न्याश्रमं गत्वाभाक्षीन्मत्त इव
॥१४५॥
।