________________
योगशास्त्रम्
SCRE
द्वितीय प्रकाश
तपः । उष्णरश्माविव ध्वान्तमाः पापं मयि कीदृशम् ॥२६॥ अथर्षि चटकोवाच मा कुपस्ते मुधा तपः । अपुत्रस्य गतिर्नास्तीत्यश्रौषीस्त्वं न कि श्रुतिम् ॥२७॥ तत्तथा मन्यमानोऽयं मुनिरेवमचिन्तयत् । ममाकलत्रपुत्रस्य प्रवाहे मूत्रितं तपः॥२८।। क्षुभितं तं परिज्ञाय धिग् भ्रान्तस्तापसैरिति । जज्ञे धन्वन्तरिः श्राद्धः प्रत्येति प्रत्ययान्न कः ॥२९॥ बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च सम्पाप पुरं नेमिककोष्टकम् ॥३०॥ जितशत्रुमहीपालं तत्र भूयिष्ठकन्यकम् । स प्रेप्सुः कन्यकामेकां दक्षं हर इवागमत् ॥३१॥ कृत्वाभ्युत्थानमुर्वीशः प्राञ्जलिस्तमभाषत । किमर्थमागता यूयं ब्रूत कि करवाण्यहम् ॥३२॥ कन्यार्थमागतोऽस्मीति मुनिनोक्ते नृपोऽब्रवीत् । मध्ये शतस्य कन्यानां त्वां येच्छति गृहाण ताम् ॥३३॥ स कन्यान्तःपुरं गत्वा जगाद नृपकन्याकाः। धर्मपत्नी मम काचिद्भवतीभ्यो भवत्विति ॥३४॥ जटिलः पलितः क्षामो भिक्षाजीवो वदन्निदम् । न लजसे त्वमिति ताः कृतथूत्कारमूचिरे ॥३५।। समीरण इव क्रुद्धो जमदग्निमुनिस्ततः। अधिज्येष्वासयष्टयाभाः कन्याः कुब्जीचकार ताः ॥३६।। अथाङ्गणे रेणुपुञ्ज रममाणां नृपात्मजाम् । एकामालोकयामास रेणुकेत्यब्रवीच ताम् ॥३७।। स तस्या इच्छसी त्युक्त्वा मातुलिङ्गमदर्शयत् । तया प्रसारितः पाणिः पाणिग्रहणसूचकः॥३८॥ तां मुनिः परिजग्राह रोरो धनमिवोरसा सार्द्ध गवादिभिस्तस्मै ददौ च विधिवन्नृपः ॥३९॥ स श्यालीस्नेहसम्बन्धादेकोनं कन्यकाशतम् । सज्जीचक्रे तपःशक्त्या धिग्मृढानां तपोव्ययः॥४०॥ नीत्वाश्रमपदं तां च स मुग्धमधुराकृतिम् । हरिणीमिव लोलाक्षी प्रेम्णा मुनिरवर्द्धयत् ४१ अर्जुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकन्दप्पलीलावनमवाप सा ॥४२॥ साक्षीकृतज्वलदग्निर्ज(१) अधिज्यधनुर्यष्टितुल्याः ।
॥१४४॥