________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥१४३॥
घृज्यान्ते ग्रहीतुं भावतो यतिः। गच्छंश्चम्पापुरी ताभ्यां देवाभ्यां ददृशे पथि ॥९॥ परीक्षाकाक्षया ताभ्यां पानान्ने दौकिते नृपः । तृषितः क्षुधितोऽप्यौज्झद्वीराः सत्त्वाच्चलन्ति न ॥१०॥ क्रकचैरिव चक्राते क्रूरैः कर्करकण्टकैः। पीडां देवौ नृदेवस्य मृदुनोः पादपद्मयोः ॥११॥ पादाभ्यां प्रक्षरद्रक्तधाराभ्यां तादृशेऽध्वनि । तूलिकातलसञ्चारं सचेरे च तथापि सः ॥१२॥ निममे गीतनृत्यादि ताभ्यां क्षोभाय भूपतेः। तन्मोघमभवत्तत्र दिव्यास्त्रमिव गोत्रजे ॥१३॥ तौ सिद्धपुत्ररूपेण पुरोभूयेदमृचतुः। तवाद्यापि महाभाग महदायुयुवासि च ॥१४॥ स्वच्छन्दं मुंव तद्भोगान् का धीर्यद्यौवने तपः। निशीथकृत्यं को प्रातः कुर्यादुद्योगवानपि ॥१५॥ यौवने तदतिक्रान्ते देहदौर्बल्यकारणम् । गृह्णीयास्त्वं तपस्तात द्वितीयमिव वाईकम् ॥१६॥ राजोचे यदि बहायुर्बहपुण्यं भविष्यति । जलमानेन नलिनीनालं हि परिवर्द्धते ॥१७॥ लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु । दारुणास्त्रो रणे यो हि शूरः शूरः स उच्यते ॥१८॥ तस्मिन्नचलिते सत्त्वात्साधु साध्विति वादिनौ । तौ गतौ तापसोत्कृष्टं जमदग्नि परीक्षितुम् ॥१९॥ न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वल्मीकाकीर्णपादान्तं दान्तं तौ तमपश्यताम् ॥२०॥ तस्य श्मश्रुलताजाले नीडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः॥२१॥ चटकश्चटकामूचे यास्यामि हिमवगिरौ। अन्यासक्तो नैष्यसि त्वमिति तं नान्वमस्त सा ॥२२॥ गोघातपातकेनाहं गृह्ये नायामि चेत्प्रिये । इत्युक्तशपथं भूयश्चटकं चटकाऽब्रवीत् ॥२३॥ ऋषेरस्यैनसा गृह्ये शपेथा इति चेप्रिय । विसृजामि तदैव त्वां पन्थानः सन्तु ते शिवाः॥२४॥ इत्याकर्ण्य वचः क्रूद्धो जमदनिमुनिस्ततः। उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पक्षिणौ ॥२५॥ आचचक्षे ततो हन्त कुर्वाणे दुष्कर
॥१४३॥