________________
योगशास्त्रम्
॥१४२॥ ॥
तम्। प्रहरणैः कुन्ततोमरादिभिर्मार्यमाणो विनाश्यमानः स वराकोदेही कथं भवेत् ? परमदुःखित एव भवेदित्यर्थः । मरणवचनेनाऽपि दुयमानस्य निशितैः शस्त्रैर्मारणमिति मृतमारणं तत्कथं सकर्णः कुर्यादिति निन्दा ||२६|| हिसाफलं दृष्टान्तद्वारेणाह-
श्रूयते प्राणिघातेन रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥२७॥
श्रूयते आकर्ण्यते एतदागमे । यदुत प्राणिघातेन हेतुना सुभूमब्रह्मदत्तौ चक्रवर्त्तिनौ सप्तमं नरकं गतौ । हिंसाया नरकगमनहेतुत्वं न रौद्रध्यानमन्तरेण भवति । अन्यथा सिहवधकतपस्विनोऽपि नरकः स्यादित्युक्तं रौद्रध्यानृपरायणौ हिसानुबन्धिध्यानयुक्तावित्यर्थः । तथा तौ नरकं गतौ तथा कथानकद्वारेण दर्श्यते । तथाहि
वसन्तपुरनामायां पुर्यामुच्छन्नवंशकः । आसीच्च्युत इवाकाशादग्निको नाम दारकः ॥ १ ॥ सोऽन्यदा चलितस्तस्मात् स्थानाद्देशान्तरं प्रति । सार्थाद्धीनः परिभ्राम्यन्नगमत्तापसाश्रमम् ||२|| तमग्निं तनयत्वेनाग्रहीत्कुलपतिर्ज्जमः । जमदग्निरिति ख्यातिं स लोकेषु ततोऽगमत् ||३|| तप्यमानस्तपस्तीक्ष्णं प्रत्यक्ष इव पावकः । तेजसा दुःसहेनासौ पप्रथे पृथिवीतले ||४|| अत्रान्तरे महाश्राद्धो नाम्ना वैश्वानरः सुरः । धन्वन्तरिश्व तापसभक्तो व्यवदतामिति ||५|| एक आहाईतां धर्मः प्रमाणमितरः पुनः । तापसानां विवादेऽस्मिन् व्यधातामिति निर्णयम् ||६|| आईतेषु जघन्यो यः प्रकृष्टस्तापसेषु यः । परीक्षणीयावावाल्यां को गुणैरतिरिच्यते ? ॥७॥ तदानीं मिथिलापु नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितः पृथिवीपतिः ||८|| दीक्षां श्रीवासु
द्वितीय
प्रकाशः
॥१४२॥