________________
योगशास्त्रम्
द्वितीय प्रकाशः
॥१४॥
दीर्यमाणो विदार्यमाणः कुशेन दर्भेण अपिशब्दादास्तां शस्त्रेण यः स्वारगे शरीरे हन्तेति प्रतिबोध्यामन्त्रणे यते उपतप्यते । निर्मान्तूनिरपराधान् जन्तून् स कथं अन्तयेदन्तं प्रापयेत् निशितायुधैः कुन्तादिभिः ? आत्मानुसारेणापि परपीडामजानन्नेवं निन्द्यते । तथा च मृगयाव्यापृतान् क्षत्रियान् प्रति केनचिदुक्तम्
रसातलं यातु यदत्र पौरुष, एक नीतिरेषाऽशरणो ह्यदोषवान् ।
निहन्यते यदलिनातिदुर्बलो, हहा महाकष्टमराजकं जगत् ॥१॥२४॥ | निर्मातुं क्रूरकर्माणः क्षणिकामात्मनो धृतिम् । समापयन्ति सकलं जन्मान्यस्य शरीरिणः ॥२५॥
करं रौद्रं कर्म हिसादि येषां ते क्रूरकर्माणो लुब्धकादयः। आत्मनः स्वस्य धृति स्वास्थ्यलक्षणां निर्मातुमिति सम्बन्धः । धृतेविशेषणं क्षणिकामिति आजन्मशाश्वतिकधृतिनिमित्तं कदाचित्किश्चिद्विरुद्धमपि क्रियते । क्षणिकधृतिनिर्माणार्थ तु समापयन्ति समाप्तिं नयन्ति जन्म अन्यस्य वध्यस्य शरीरिणः । अयमर्थः-परप्राणमांसजन्यक्षणिकतृप्तिहेतोराकालिकं परस्यायुः समाप्यत इति महादिदं वैशसम् । यहाह
योऽश्नाति यस्य तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिः प्राणैरन्यो वियुज्यते ॥२५॥ म्रियस्वेत्युच्यमानोऽपि देही भवति दुखितः। मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ?॥२६॥
म्रियस्व त्वमित्युच्यमानोऽपि न तु मार्यमाणो देही जन्तुर्जायमानमृत्युरिव दुःखितो भवतीति सर्वप्राणिप्रती(१) कुनीति ।
॥१४॥