________________
द्वितीय
योगशास्त्रम्
प्रकामा
॥१४॥
" प्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वीिदानेऽपि न शाम्यति ॥२२॥
प्राणी जन्तुः प्राणितं जीवितव्यं तस्य लोभेन राज्यमपि तत्कालोपस्थितं परिहरति । यदाहमार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु । तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति ॥१॥
तत्तथाविधप्राणितप्रियप्राणिवधसम्भवं पापं सकलपृथ्वीदानेनापि न शाम्यति । भूदानं हि सकलदानेभ्योऽभ्यधिकमिति श्रुतिः ॥२२॥
अथ श्लोकचतुष्टयेन हिंसाकर्तुनिन्दामाहवने निरपराधानां वायुतोयतृणाशिनाम् । निघ्नन् मृगाणां मांसार्थी विशिष्येत कथं शुनः ?॥२३॥
मृगाणामिति “ निप्रेभ्यो नः" ॥२॥२॥१५॥ इति कर्मत्वप्रतिषेधाच्छेषे षष्ठी। वने वनवासिनां न तु परस्वीकृतभूमिबासिनां । तथाविधा अपि सापराधाः स्युरित्याह-निरपराधानां परधनहरणपरगृहभङ्गपरमारणाद्यपराधरहितानां । निरपराधत्वे हेतुमाह-वायुतीयतृणाशिनाम्, न हि वायुतोयतृणानि परधनानि येन तद्भक्षणात्सापराधत्वं स्यात् । मांसार्थीति अत्रापि मृगाणामिति सम्बध्यते । मृगाणां यन्मांसं तदर्थयते, मृगग्रहणेनाटविकाः प्राणिन, गृह्यन्ते । एवंविधमृगमांसार्थी मृगवधपरायणो निरपराधमानुषपिचण्डिकामांसलुब्धाच्छुनः कथं विशिष्येत श्ववेत्यर्थः ॥२३॥ दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त दूयते । निर्मन्तून् स कथं जन्तूनन्तयेनिशितायुधैः ॥२४॥
॥१४०॥