________________
योगशास्त्रम्
द्वितीय प्रकाश
॥१३९॥
यथात्मनि दुःखसाधनमप्रियं तथा सर्वभूतेष्वपि । एवं चिन्तयन् दुःखसाधनत्वादप्रियां परस्य हिंसां न कुर्वोत । सुखग्रहणं दृष्टान्तार्थम् । यथा सुखसाधनं प्रियमेवं दुःखसाधनमप्रियम् । तथा सर्वभूतेष्वपि दुःखसाधनमप्रियमित्यर्थः । यदाहुलौकिका अपि
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥१॥ इति ॥२०॥ ननु प्रतिषिद्धाचरणे दोषः, प्रतिषिद्धा च त्रसजीवविषया हिंसा, स्थावरेषु त्वप्रतिषिद्धर्हिसेषु यथेष्ट चेष्टन्ताम् गृहस्था इत्याहनिरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मज्ञः काङ्क्षन्मोक्षमुपासकः ॥२१॥ __ स्थावराः पृथिव्यम्बुतेजोवायुवनस्पतयस्तेष्वपि जीवेषु हिंसां न कुर्वीत । किविशिष्टां ? निरथिको प्रयोजनरहितां, शरीरकुटुम्बनिर्वाहनिमित्तं हि स्थावरेषु हिंसा न प्रतिषिद्धा, या त्वर्थिका शरीरकुटुम्बादिप्रयोजनरहिता तादृशीं हिंसां न कुर्वीत उपासकः श्रावकः । किविशिष्टः ? अहिंसाधर्मज्ञः अहिंसालक्षणं धर्म जानातीति अहिंसाधर्मज्ञः। न हि प्रतिषिद्धवस्तुविषयैवाहिंसा धर्मः किन्त्वप्रतिषिद्धेष्वपि सा यतनारूपा । ततश्च तथाविधं धर्म जानन् स्थावरेष्वपि निरर्थिकां हिसां न विदधीत । ननु प्रतिषिद्धविषयैवाहिंसास्तु किमनया सूक्ष्मेक्षिकया ? इत्याह-काक्षन्मोक्षं, स हि मोक्षाकाक्षी यतिवत् कथं निरथिकां हिंसामाचरेत् ? ॥२१॥
ननु निन्तरहिंसापरोऽपि सर्वस्वं दक्षिणां दत्त्वा पापविशुद्धिं विदध्यात् किमनेन हिंसापरिहारक्लेशेन ? इत्याह
॥१३९।