________________
योगशाखम् ११३८॥
द्वितीय प्रकाशा
परलोको न युज्यते। अभावे परलोकस्य पुण्यापुण्यकथा वृथा ॥१८॥ तपांसि यातनाश्चित्राः संयमो भोगवञ्चना । इति विप्रतिपत्तिभ्यः परेभ्यः परिभाष्यते ॥१९॥ स्वसंवेदनतः सिद्धः स्वदेहे जीव इष्यताम् । अहं दुःखी सुखी वाहमिति प्रत्यययोगतः ॥२०॥ घटं वेदम्यहमित्यत्र त्रितयं प्रतिभासते। कर्म क्रिया च कर्ता च तत्कर्ता किं निषिध्यते ॥२१॥ शरीरमेव चेत्कत न कत्तं तदचेतनम् । भूतचैतन्ययोगाच्चेच्चेतनं तदसङ्गतम् ॥२२॥ मया दृष्टं श्रुतं स्पृष्टं घातमास्वादितं स्मृतम् । इत्येककर्तृकाभावात् भूतचिद्वादिनः कथम् ॥२३॥ स्वसंवेदनतः सिद्धे स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सिद्धिरनुमानेन साध्यते ॥२४॥ बुद्धिपूर्वा क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्गतिः प्रमाणबलतः सिद्धा केन नाम निवार्यते ॥२५।। तत्परलोकिनः सिद्धौ परलोको न दुर्घटः। तथा च पुण्यपापादि १सर्वमेवोपपद्यते ॥२६॥ तपांसि यातनाश्चित्रा इत्याधुन्मत्तभाषितम् । सचेतनस्य तत्कस्य नोपहासाय जायते ॥२७॥ निर्बाधोऽस्ति ततो जीवः स्थित्युत्पादव्ययात्मकः। ज्ञाता द्रष्टा गुणी भाक्ता कर्ता कायप्रमाणकः॥२८॥ तदेवमात्मनः सिद्धी हिंसा कि नोपपद्यते तदस्याः परिहारेणाहिंसाव्रतमुदीरितम् ॥२९॥१९॥
हिंसानियमे स्पष्टं दृष्टान्तमाहआत्मवत्सर्वभूतेषु सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥२०॥
मुखशब्देन मुखसाधनमनपानस्त्रचन्दनादि गृह्यते । दुःखशब्देन दुःखसाधन वधबन्धमारणादि । ततो (१) स्वयमेवोः ।
॥१३८॥