________________
योगशास्त्रम्
॥१३७॥
येषामेकान्तिको भेदः सम्मतो देह देहिनोः । तेषां देहविनाशेऽपि न हिसा देहिनो भवेत् ||१|| अभेदैकान्तवादेऽपि स्वीकृते देहदेहिनोः । देहनाशे देहिनाशात्परलोकोऽस्तु कस्य वै ||२|| भिन्नाभिन्नतया तस्माज्जीवे देहात्प्रतिश्रुते । देहनाशे भवेत्पीडा या तां हिसां प्रचक्षते ||३|| दुःखोत्पत्तिर्मनः क्लेशस्टत्पर्यायस्य च क्षयः यस्यां स्यात्सा प्रयत्नेन हिंसा हेया विपश्चिता || ४ || प्राणी प्रमादतः कुर्याद्यत्प्राणव्यपरोपणम् । सा हिंसा जगदे प्राज्ञैवजं संज्ञेसारभूरुहः ||५|| शरीरी म्रियतां मा वा धवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न || ६ || जीवस्य हिंसा न भवेन्नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात्कथं हिंसोपपद्यताम् ॥७॥ नित्यानित्ये ततो जीवे परिणामिनि युज्यते । हिसा कायवियोगेन पीडातः पापकारणम् ||८|| केचिद्वदन्ति हन्तव्याः प्राणिनः प्राणिघातिनः । हिंखस्यैकस्य घाते स्याद्रक्षणं भूयसां किल || ९ || तदयुक्तमशेषाणां हिंखत्वात्प्राणिनामिह । हन्तव्यता स्यात्तल्लाभमिच्छोर्मूलक्षतिः स्फुटा ||१०|| अहिंसासम्भवो धर्म्मः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ ११॥ पापहेतुर्वधः पापं कथं छेत्तुमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते || १२ || संसारमोचकास्त्वाहुदुःखिनां वध इष्यताम् । विनाशे दुःखिनां दुःखवि ना जायते कि ||१३|| तदप्यसाम्प्रतं ते हि हता नरकगामिनः । अनन्तेषु नियोज्यन्ते दुःखेषु स्वल्पदुःखकाः | १४ ॥ किं च सौख्यवतां घाते धर्म्मः स्यात्पापवारणात् । इथे विचार्य हेयानि वचनानि कुतीर्थिनाम् ||१५|| चार्वाकाः प्रादुरात्मैव तावन्नास्ति कथञ्चन । तं विना कस्य सा हिसा कस्य हिसाफलं भवेत् ॥ १६ ॥ भूतेभ्य एक चैतन्य पिष्टादिभ्यो यथा मदः । भूतसंहतिनाशे च पञ्चत्वमिति कथ्यते || १७|| आत्माभावे च तन्मूल:
द्वितोप
प्रकाशः
॥१३७॥