________________
योगशास्त्रम् ॥१३॥
द्वितीय प्रकाशः
त्रिकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणेन अनागतस्य प्रत्याख्यानेनेति । यदाह
“अइ निंदामि पडुप्पन्नं संवरेमि अणागय पच्चक्खामि त्ति । एते च भङ्गा अहिंसावतमाश्रित्योपदर्शिता व्रतान्तरेष्वपि द्रष्टव्याः ॥१८॥
एवं सामान्येन हिंसादिगोचरां विरतिमुपदर्य प्रत्येकं हिंसादिषु तामुपदिदर्शयिषुर्हिसायां तावदाह| पङ्गुकुष्ठिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीः। निरागस्त्रसजन्तूनां हिंसां संकल्पतस्त्यजेतू॥१९॥
इह नादृष्टपापफलाः पापानिवर्तन्त इति पापफलमुपदर्शयन् हिंसाविरतिव्रतमुपदिशति । पगुः सत्यपि पादे पादविहरणाक्षमः, कुष्टी त्वग्दोषी, कुणिर्विकलपाणिः तेषां भावः पङ्गुकुष्ठिकुणित्वम् । आदिग्रहणात्पङ्गुत्वोपलक्षितमधःकायवैगुण्यम्, कुष्ठित्वोपलक्षितं सकलरोगजातम्, कुणित्वोपलक्षितमुपरिकायवैगुण्यं संगृह्यते । एतद्धिसाफलं दृष्ट्वा सुधीरिति बुद्धिमान्, स हि शास्त्रबलेन हिंसायाः फलमेतदिति निश्चित्य हिंसां त्यजेत् । अत्र विधौ सप्तमी । केषां ? निरागस्त्रसजन्तूनां निरागसो निरपराधाखसा द्वीन्द्रियादयस्तेषां सङ्कल्पेन सङ्कल्पेतः आधादित्वात्त. तीयान्तात्तसुः । निरागस इति निरपराधजन्तुविषयां हिंसां प्रत्याचष्टे सापराधस्य तु न नियमः। त्रसग्रहणेनैकेन्द्रि यविषयां हिसां नियमयितुं नक्षम इत्याचष्टे-सङ्कल्पत इति अमु जन्तुं मांसाधर्थित्वेन हन्मीति सङ्कल्पपूर्वकं हिंसा वर्जयेत् । आरम्भजा तु हिंसा अशक्यप्रत्याख्यानेति तत्र यतनामेव कुर्यादिति । अत्रान्तरश्लोका:(१) अतीतं निन्दामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामीति ।
॥१३६॥