________________
योगशाखम्
द्वितीय মকায়:
॥१३५॥
१दुविहतिहेण पढमो दुविहं दुविहेण बीयओ होइ। दुविहं एगविहेण एगविहं चेव तिविहेण ॥१॥
एगविहं दुविहेणं एगेगविहेण छठओ होइत्ति । एते च भङ्गाः करणत्रिकेण योगत्रिकेण च विशेष्यमाणा एकोनपश्चाशद्भवन्ति । तथाहिहिंसां न करोति मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७ एते करणेन सप्त भङ्गाः ।
एवं कारणेन सप्त । अनुमत्या सप्त । तथा हिंसां न करोति न कारयति च मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७। एते करणकारणाभ्यां | सप्त भङ्गाः।
एवं करणानुमतिभ्यां सप्त । कारणानुमतिभ्यामपि सप्त । करणकारणानुमतिभिरपि सप्त । एवं सर्वे मीलिता एकोनपश्चाशद्भवन्ति । एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवन्ति । यदाह
२सेयालं भंगसय पच्चक्खाणम्मि जस्स उवलद्रं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसलाओ ॥१॥ (१) द्विविधत्रिविधेन प्रथमो द्विविधं द्विविधेन द्वितीयो भवति । द्विविधं एकविधेन एकविधं चैव त्रिविधेन । एकविधं द्विविधेन एककविधेन षष्ठको भवतीति । (२) सप्तचत्वारिंशत्भङ्गशतं प्रत्याख्याने यस्य उपलब्धम् । स खलु प्रत्याख्याने कुशलः शेषा अकुशलाः ॥
॥१३५४