________________
योग
शास्त्रम्
॥१३२॥
सुनिश्चितं मत्सरिणो जनस्य, न नाथ मुद्रामतिशेरते ते ।
माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचे च समानुबन्धाः ||१||
देशविषयं तु इदमेव बुद्धवचनं साङ्ख्यकणादिवचनं वा तत्त्वमिति । इदं तु व्यक्तमेव सम्यक्त्वदुषणम् ४ । तैर्मिथ्यादृष्टिभिरेकत्र संवासात्परस्परालापादिजनितः परिचयः संस्तवः । एकत्र वासे हि तत्प्रक्रियाश्रवणात्तत्क्रियादशनाच्च सम्यक्त्ववतोऽपि दृष्टिभेदः सम्भाव्यते, किमुत मन्दबुद्धेर्नवधर्म्मस्य इति संस्तवोऽपि सम्यक्त्वदूषणम् ५ । एवंविध च सम्यक्त्वं विशिष्टद्रव्यक्षेत्र कालभावसामद्रयां सत्यां गुरो समीपे विधिना प्रतिपद्य श्रावको यथावत्पालयति । यदाह
१ समणोवास तत्थ मिच्छत्ताओ पडिक्कमे । दव्वओ भावओ पुव्वि सम्मतं पडिवज्जए ||१|| २न कप्पए से परतित्थियाणं, तहेव तेसिं चिय देवयाणं । परिग्गहे ताण य चेइयाणं पहावणावंदणपूयणा ॥ २ ॥ श्लोयाण तित्थेसु सिणाणदाणं, पिंडप्पयाणं हुणणं तवं च । संकंतिसोमग्गहणाइएं, पभूयलोयाण पवाह किच्चं ||३|| एवं तावत्सागरोपमकोटीकोटयां शेषायां किञ्चिदूनायां मिथ्यात्वमोहनीयस्थितौ जन्तुः सम्यक्त्वं प्रतिपद्यते सागरोपमकोटी कोट्यामप्यवशिष्टायां पल्योपमपृथक्त्वं यदा व्यतीतं भवति तदा देशविति प्रतिपद्यते । यदाह(१) श्रमणोपासकस्तत्र मिथ्यात्वात्प्रतिक्रमेत् । द्रव्यतो भावतः पूर्वं सम्यक्त्वं प्रतिपद्यते ॥ (२) न कल्पते तस्य परतीर्थिकानां तथैव तेषामेव देवतानाम् । परिग्रहे तेषां च चैत्यानां प्रभावनावन्दनपूजनादि ॥ (३) लोकानां तीर्थेषु स्नानदानं पिण्डप्रदानं हवनं तपश्च । संक्रान्तिसोमग्रहणादिकेषु प्रभूतलोकानां प्रवाहकृत्यम् ।।
द्वितीय
प्रकाशः
"સા