________________
योगशास्त्रम्
॥१३१॥
EXORORSCHOO
एतदपि घटमानकमेव न दूरापेतम् । तथा परिव्राद्भौतत्रह्मणादयो विषयानुपभुञ्जाना एव परलोकेऽपि सुखेन युज्यन्त इति साधीयानेषोऽपि धर्म इति । एवं च काङ्क्षापि परमार्थतो भगवदर्हत्प्रणीतागमानाश्वासरूपा सम्यक्त्वं दूषयति । विचिकित्सा चिचविप्लवः, सा च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तपः क्लेशस्य सिकताकणकवलवनिःस्वादस्यायत्या फलसम्पद्भवित्री । अथ क्लेशमात्रमेवेदं निर्जराफलविकलमिति । उभयथा हि क्रिया दृश्यन्ते सफला अफलाश्च कृषीबलादीनामिव इयमपि तथा सम्भाव्यते । यदाह
१ पुव्वपुरिसा जहोइअमग्गचरा घडइ तेसि फलजोगो । अम्हेसु य धीसंघयणविरहओ न तह तेसि फलं ॥ १ ॥ इति ॥
विचिकित्सापि भगवद्वचनानाश्वासरूपत्वात्सम्यक्त्वस्य दोषः । न च शङ्कातो नेयं भिद्यते । शङ्का हि सकला सकलपदार्थभाक्त्वेन द्रव्यगुणविषया, इयं तु क्रियाविषयैव । यद्वा विचिकित्सा निन्दा सा च सदाचारमुनिविषया यथा अस्नानेन प्रस्वेदजलक्लिन्नमलत्वाद्दुर्गन्धिवपुष एत इति । को दोषः स्याद्यदि प्रासुकवारिणाऽङ्गक्षालनं कुर्वीरन्निति । इयमपि तत्त्वतो भगवद्धर्म्मानाश्वासरूपत्वात् सम्यक्त्वदोषः ३ । मिथ्या जिनागमविपरीता दृष्टिर्दर्शनं येषां ते मिथ्यादृष्टयस्तेषां प्रशंसनं प्रशंसा तच्च सर्वविषयं देशविषयं च । सर्वविषयं सर्वाण्यपि कपिलादिदर्शनानि युक्तियुक्तानीति माध्यस्थ्यसारा स्तुतिः सम्यक्त्वस्य दूषणम् । यदाचक्ष्महि स्तुतौ
(१) पूर्वपुरुषा यथोचितमार्गचरा घटते तेषां फलयोगः । अस्मासु च धीसंहननविरहतः न तथा तेषां फलम् ॥
द्वितीय प्रकाशः
॥१३१॥