________________
योग
द्वितीय प्रकाशः
शास्त्रम्
॥१३०॥
क्वं दूषयति । केवलागमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतृकत्वान्न सन्देग्धुं योग्या यत्रापि मोहवशात् कचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला । यथा
कत्थ य मइदुब्बल्लेण तविहायरियविरहओ वावि । नेयगहणत्तणेण य नाणावरणोदएणं च ॥१॥ २हेऊदाहरणासंभवे असइ सुटु ज न बुज्झेज्जा । सव्वन्नुमयमवितहं तहावि तं चिंतए मइमं ॥२॥ ३अणुवकयपरागुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य ननहा वाइणो तेणं ॥३॥
यथा वा सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः मिथ्यादृष्टिः। सूत्रं हि नःप्रमाणं जिनाभिहितम् । काङ्क्षा अन्यान्यदर्शनग्रहः। सापि सर्वविषया देशविषया च । सर्वविषया सर्वपाखण्डिधर्माकाक्षारूपा । देशकाक्षा त्वेकादिदर्शनविषया यथा सुगतेन भिक्षणामक्लेशको धर्म उपादिष्टः स्नानानपानाच्छादनशयनीयादिषु सुखानुभवद्वारेण । यदाह
मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भकतं पानकं चापराहणे ।
द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥१॥ इति (१) क च (कवचन) मतिदुर्बलेन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ।। (२) हेतूदाहरणासंभवे च सति सुष्टु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तच्चिन्तयति मतिमान् ॥ (३) अनुपकृतपरानुग्रहपरायणा यज्जिना जगत्प्रवराः। जितरागदोष (द्वेष) मोहाश्च नान्यथा वादिनस्तेन ॥
॥१३०॥