________________
योगशास्त्रम्
द्वितीय प्रकाशः
॥१२९॥
| सुखावतारो मार्गः । तच्च द्विधा द्रव्यतीर्थ भावतीर्थ च । द्रव्यतीर्थ तीर्थकृतां जन्मदीक्षाज्ञाननिणिस्थानम् । यदाह
१जम्मं दिक्खा नाणं तित्थयराणं महाणुभावाणं । जत्थ य किर निवाण आगाढं दसणं होई ॥शा ___ भावतीर्थ तु २चतुर्विधः श्रमणसङ्घः प्रथमगणधरो वा । यदाह-"३तित्थ भन्ते तित्यं तित्थयरे तित्थं ? गोयमा! अरिहा ताव नियमा तित्थंकरे, तित्यं पुण चाउवणे समणसंघे पढममणहरे" । तीर्थस्य सेवा तीर्थसेवा ॥१६॥
__ अस्य सम्यक्त्वस्य भूपणान्युक्त्वा दृषणान्याहशङ्काकाङ्क्षाविचिकित्सामिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पश्चापि सम्यक्त्वं दूषयन्त्यलम १७॥
पश्चापि शङ्कादयो निर्दोषमपि सम्यक्त्वं दूषयन्ति अलमतिशयेन । शङ्का सन्देहः सा च सर्वविषया देशविषया च । सर्वविषया अस्ति वा नास्ति वा धर्म इत्यादि । देशशङ्का एकैकवस्तुधर्मगोचरा । यथा अस्ति जीवः केवलं सर्वगतोऽसर्वगतो वा सप्रदेशोऽप्रदेशो वेति । इयं च द्विधाऽपि भगवदहत्प्रणीतप्रवचनेषु अप्रत्ययरूपा सम्य(१) जन्म दीक्षा ज्ञानं तीर्थकराणां महानुभावानाम् । यत्र च किल निर्वाणं आगाढं दर्शन भवति ॥ (२) चतुर्वर्णः । (३) तीर्थ भगवन् तीर्थ तीर्थकरः तीर्थ ? गौतम ! अईन् तावनियमेन तीर्थकरस्तीर्थ पुनश्चातुर्वणो श्रमणसङ्कः
प्रथमगणधरो वा।
१२९॥