________________
योगशास्त्रम् ॥१२८॥
SHREE ROKENO CREEN SHEESHOHOKR
१पावयणी धमकी बाई नेमित्तिओ तवस्सी य। विज्जा सिद्धो अ कई अव पभावगा भणिया ||१|| तत्र प्रवचनं द्वादशाङ्ग गणिपिटकं तदस्यास्त्यतिशयवदिति प्रवचनी युगप्रधानागमः । धर्मकथा प्रशस्या - स्यास्तीति धर्मकथी शिखादित्वादिन् । वादिप्रतिवादिसभ्यसभापतिलक्षणायां चतुरङ्गायां सभायां प्रतिपक्षनिरासपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी । निमित्तं त्रैकालिकं लाभालाभादिप्रतिपादकं शास्त्रं तद्वेत्यधीते वा नैमित्तिकः । तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी । विद्याः प्रज्ञप्त्यादयः शासनदेवतास्ताः साहाय (य्य) के यस्य स विद्यावान् । अञ्जनपादले पतिलकगुटिकासकलभूताकर्षण निष्कर्षणवौक्रियत्वप्रभृतयः सिद्धयस्ताभिः सिद्धयति स्म सिद्धः । कवते गद्यपद्यादिभिः प्रबन्धैर्वर्णनां करोतीति कविः । एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन साहाय (य्य) ककरणात्प्रभावकास्तेषां कर्म प्रभावना द्वितीयं भूषणम् । भक्तिः प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेष्वभ्युत्थानमभियानं शिरस्यञ्ज– लिकरणं स्वयमासनढौकनमासनाभिग्रहो वन्दना पर्युपासना अनुगमनं चेत्यष्टविधकर्मविनयनादष्टविध उपचारविनयः । व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यम् । तच्चाचार्योपाध्यायतपस्विशि (शै) क्षकग्लानकुलगणसङ्घसाधुसमनो(मान) ज्ञेषु दशस्वन्नपानवस्त्रपात्रप्रतिश्रयपीठ फलकसंस्तारादिभिर्धर्म्मसाधनैरुपग्रहः शुश्रूषाभैषजक्रियाकान्तारविषमदुर्गोपसर्गेष्वभ्युपपत्तिश्च । जिनशासनविषये च कौशलं नैपुण्यम् । ततो हि व्यवहितादिरप्यर्थो विषयीक्रियते । यथानार्यदेशवर्त्ती आर्द्रककुमारः श्रेणिकपुत्रेणाभयकुमारेण कौशलात्प्रतिबोधित इति । तीर्थं नद्यादेखि संसारस्य तरणे (१) प्रवचन धर्मकथी वादी नैमित्तिकः तपस्वी च । विद्यावान् विद्वश्व कविः अष्ठैव प्रभावका भणिताः ॥
द्वितीय प्रकाशः
॥१२८॥