________________
योगशास्त्रम्
द्वितोष प्रकाश
॥१२७॥
वानिति । संवेगो भयं जिनप्रवचनानुसारिणो हि नरकेपु शारीरं मानसं च शीतोष्णादिजनितं च संक्लिष्टासुरोदीरितं च परस्परोदीरितं च, तिर्यक्षु भारारोपणाद्यनेकविधं, मनुजेषु दारिद्र्यदौर्भाग्यादि च दुःखमवलोकयतस्तद्धीमतया तत्प्रशमोपायभूतं धर्ममनुतिष्ठतो लक्ष्यते विद्यतेऽस्य सम्यग्दर्शनमिति । निर्वेदो विषयेष्वनभिष्वङ्गः यथा इहलोक एव प्राणिनां दुरन्तकामभोगाभिष्वङ्गोऽनेकोपद्रवफल: परलोकेऽप्यतिकटुकनरकतिर्यग्रमनुष्यजन्मफलप्रदः। अतो न किश्चिदनेन । उज्झितव्य एवायमिति । एवंविधनिर्वेदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शनमिति । अनुकम्पा कृपा यथा सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहाणार्थिनश्च । ततो नैषामल्पापि पीडा मया कार्येत्यनयापि लक्ष्य तेऽस्त्यस्य सम्यक्त्वमिति । सन्ति खलु जिनेन्द्रप्रवचनोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भवा इति परिणाम आस्तिक्यम् । अनेनापि लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति ॥१५॥
सम्यक्त्वलिङ्गान्युक्त्वा भूषणान्याह-- स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने। तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥१६॥
अस्य सम्यक्त्वस्य पञ्च भूषणानि भूष्यते अलङ्क्रियते यैस्तानि भूषणानि जिनशासने जिनशासनविषये। एतच्च सर्वत्र सम्बध्यते । स्थैर्य जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वयं वा परतीर्थिकर्द्धिदर्शनेऽपि जिनशासनं प्रति निष्प्रकम्पता। प्रभवति जैनेन्द्रशासनं तस्य प्रभवतः प्रयोजकत्वं प्रभावना । सा चाष्टधा प्रभावकभेदेन । यदाह
॥३२