________________
योगशास्त्रम्
द्वितीय प्रकाश
॥१२६॥
१नारयतिरियनरामरभवेसु निच्वेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य ॥१॥
अन्ये तु संवेगनिर्वेदयोरर्थविपर्ययमाहुः संवेगो भवविरागः निर्वेदो मोक्षाभिलाष इति । अनुकम्पा दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा । पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव । सा चानुकम्पा द्रव्यतो भावतश्च भवति द्रव्यतः। सत्यां शक्तौ दुःखप्रतीकारेण । भावत आर्द्रहृदयत्वेन । यदाह___२दट्टण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं । अविसेसओणुकंप २दुविहावि सामच्छ (त्थ) ओ कुणइ ॥१॥ अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्निक्यम् । तत्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाक्षा प्रतिपत्तिः। आस्तिक्येन हि जीवधर्मतया अप्रत्यक्ष सम्यक्त्वं लक्ष्यते । तद्वान् हि आस्तिक इत्युच्यते । यदाह४मन्नइ तमेव सच्चं नीसंकं जं जिणेहि पन्नत्तं । सुहपरिणामो सम्मं कंखाइविमुत्तिआरहिओ ॥१॥
अन्ये तु शमादीनि लिङ्गान्यन्यथा व्याचक्षते सुपरीक्षितप्रवक्तप्रवाच्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवे| शोपशमः शमः। स सम्यग्दर्शनस्य लक्षणम् । यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शन
(१) नारकतियङ्कनरामरभवेषु निर्वेदतः वसति दुःखम् । अकृतपरलोकमार्गों ममत्वविषवेगरहितश्च । (२) दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् । अविशेषतोऽनुकम्पां द्विविधामपि सामर्थ्यतः करोति ॥ (३) दुहावि। (४) मन्यते तदेव सत्यं द्विशएं यदजिनः प्रज्ञापितम् (प्रज्ञप्तम)। शुभपरिणामः सम्यकू काक्षादिविसूत्रिकारहितः।।
HPREH