________________
योग
द्वितीय प्रकाशा
शास्त्रम्
॥१२५।।
पपईईए कम्माणं नाऊणं वा विवागममुहं ति । अवरुद्ध वि न कुप्पइ उवसमओ सव्वकालं पि ॥१॥
अन्ये तु क्रोधकण्डूविषयतृष्णोपशमः शम इत्याहुः। अधिगतसम्यग्दर्शनो हि साधृपासनावान् कथं क्रोधकण्वा विषयतृष्णया च तरलीक्रियेत ? ननु क्रोधकण्ड्वषयतृष्णोपशमश्चच्छमस्तर्हि कृष्णश्रेणिकादीनां सापराधे निरपराधेऽपि च परे क्रोधवतां विषयतृष्णातरलितमनसां च कथं शमः? तदभावे च सम्यक्त्वं न गम्येत ? नैवम् । दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वह्निः भस्मच्छन्नस्य वा वझेने धूमलेशोऽपीति । अयं तु नियमः सुपरीक्षिते लिङ्गे सति लिङ्गी भवत्येव । यदाह-- लिङ्गे लिङ्ग भवत्येव लिंगिन्ये वेतरत्पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥१॥
सज्वलनकषायोदयोदयाद्वा कृष्णादीनां क्रोधकण्डूविषयतृष्णे। सज्वलना अपि केचन कषायास्तीव्रतया अनन्तानुबन्धिसदृशविपाकवन्त इति सर्वमवदातम् । संवेगो मोक्षाभिलापः । सम्यग्दृष्टिहिं नरेन्द्र सुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाददुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यते अभिलपति च । यदाहरनरविबुहेसरसोक्खं दुक्ख चिय भावओ अ मन्नतो। संवेगओ न मोक्खं मोत्तणं किंचि पच्छे (त्थे) इ ॥१॥ निर्वेदो भववैराग्यम् । सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथातथाकदर्यमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निविणो भवति । यदाह
(१) प्रकृत्याः कर्मणां ज्ञात्वा वा विपाकमशुभमिति । अपराधेऽपि न कुप्यति उपशमतः सर्वकालमपि ॥ (२) नरविबुधेश्वरसौख्यं दुःखमेव भावतश्च मन्यमानः । संवेगतो न मोक्षं मुक्त्वा किञ्चित् प्रेक्षते, (प्रार्थयति)।
१२५॥