________________
योग
द्वितीय प्रकाशा
शास्त्रम्
૨૨છા
सरागोऽपि हि देव श्चेद् गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्म स्यात्कष्टं नष्टं हहा जगत् ॥१४
रागग्रहणमुपलक्षणं द्वेषमोहयोः । अब्रह्मचारित्वमुपलक्षणं प्राणातिपातादीनाम् । कृपाहीनत्वमुपलक्षणं मूलोत्तरगुणहीनत्वस्य । चेच्छन्दः प्रत्येकमभिसम्बध्यते । आक्षेप प्रकटयति-कष्टमिति खेदे नष्टं जगत् देवगुरुधर्मशू न्यत्वेन विनष्टं दुर्गतिगमनात् । हहा निपातः खेदातिशयसूचकः। यदाह
रागी देवो दोसी देवो मामि सुन्नपि देवो मज्जे धम्मो मंसे धम्मो जीवहिंसाइ धम्मो।
रत्ता मत्ता कन्तासत्ता जे गुरू तेवि पुज्जा, हाहा कळं नहो लोओ अट्टमटू कुणंतो ॥१॥१४॥ तदेवमदेवागुर्वधर्मपरिहारेण देवगुरुधर्मप्रतिपत्तिलक्षणं सम्यक्त्वं सुव्यवस्थितम् । तच्च शुभात्मपरिणामरूपमस्मदादीनामप्रत्यक्षं केवलं लिङ्गैलेक्ष्यते, तान्येवाह|| शमसंवेगनिर्वेदानुकम्पस्तिक्यलक्षणैः। लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते॥१५॥
पञ्चभिलक्षणैलिङ्गः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते । लिङ्गानि तु शमसंवेगनिर्वेदानुकम्पास्ति क्यस्वरूपाणि । शमः प्रशमः क्रूराणामनन्तानुबन्धिनां कषायाणामनुदयः । स च प्रकृत्या वा कषायपरिणते: कटुफलावलोकनाद्वा भवति । यदाह(१) रागी देवो द्वेषी देवो सखे शृन्योऽपि देवः, मधे धर्मों मांसे धर्मः जीवहिसायां धर्म। रक्ता मत्तोः कान्तासत्ता ये गुरवः तेऽपि पूज्याः हाहा कष्टं नष्टो लोको अट्टम कुर्वन् ।