________________
योगशास्त्रम्
॥ १२३॥
करणाभिघाते शब्दान्तराणामपि तद्देश्यानामभिव्यक्तिप्रसङ्गः । न च प्रतिनियतव्यञ्जकव्यङ्ग्यता शब्दानां भवति व्यङ्ग्यान्तरेषु तददर्शनात् । तथा च
गृहे दधिघीं द्रष्टुमाहितो गृहमेधिना । अपूपानपि तद्देश्यान् प्रकाशयति दीपकः ॥ १ ॥
तदेवं वचनस्यापौरुषेयता न सम्भवति । अथाप्यप्रामाणिक हेवा कबलादाकाशादिवच्छब्दस्यापौरुषेयता यदि भवेत् तथापि प्रामाण्यं न सम्भवति । हि यस्मादाप्तवक्तृकत्वेन वाचां प्रामाण्यं नान्यथा । यतःशब्दे गुणोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः कचित्तावदोषवद्वक्तुकत्वतः ||१|| तद्दोषैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन गुणा न स्युर्निराश्रयाः ||२|| किश्च - गुणाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे कर्त्तुरभावाच्च गुणशदेव नास्ति नः ||३||१२|| एवं तावदषौरुषेयवचनाभिहितस्यासम्भवादिना अभावमभिधायासर्वज्ञ पुरुषवक्तुकस्य धर्म्मस्याप्रामाणिकत्वमाहमिथ्यादृष्टिभिराम्नातो हिंसाद्यैः कलुषीकृतः । स धर्म्म इति वित्तोऽपि भवभ्रमणकारणम् ॥१३॥
मिथ्यादृष्टिभिर्हरिहरहिरण्यगर्भकपिलबुद्धादिभिराम्नातः आत्मोपज्ञतया प्रतिपादितः । यत्तदोर्नित्याभिसम्बन्धाद्यो मिथ्यादृष्टिभिराम्नातः स धर्मत्वेन मुग्धबुद्धीनां प्रसिद्धोऽपि भवभ्रमणकारणमधर्म एवेत्यर्थः । कुत इत्याहहिंसाद्यैः कलुषीकृत इति । मिथ्यादृष्टिप्रणीता ह्यागमा हिंसादिदोषदुषिताः ॥ १३॥ इदानीमदेवागुर्व्वधर्माणां साक्षेपं प्रतिक्षेपमाह
500=6OKE
द्वितीय
प्रकाशः
॥ १२३ ॥