________________
योग
शास्त्रम्
॥१२२॥
लक्षणं धर्म्मस्य । धत्ते वा नरसुरमोक्षस्थानेषु जन्तूनिति निरुक्ताद्धर्म्मः । यदाह -
दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः । धत्ते चैतान शुभे स्थाने तस्माद्धर्म्म इति स्मृतः । ॥१॥ स तु वक्ष्यमाणैः संयमादिभिर्भेदैर्दशधा । सर्वज्ञोक्तत्वाद्विमुक्तये भवति । देवतान्तरप्रणीतस्त्वसर्वज्ञवक्तृकत्वाम प्रमाणम् ॥ ११ ॥
ननु सर्वज्ञोक्तत्वाभावेऽप्यपौरुषेयवचनोपज्ञस्य धर्मस्य प्रामाणिकत्वमस्तु । यदा — चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं स्थूलं व्यवहि । विप्रकृष्टमेवंजातीयकमर्थमवगमयितुं शक्नोति नान्यत्किञ्चनेन्द्रियमिति । चोदना च अपौरुषेयत्वेन पुरुषगतानां दोषाणामप्रवेशात् प्रमाणमेव । यदाह -- शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः कचित्तावद्गुणद्ववकत्वतः ॥ १॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोंपा निराश्रयाः ॥ २॥ किञ्च दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । कर्त्तुरभावाच्च दोषाशङ्कैव नास्ति नः ||३|| इत्याह-अपौरुषेयं वचनमसम्भवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ॥ १२ ॥ पुरुषेण कृतं पौरूषेयं तन्प्रतिषेधादपौरुषेयम् । उच्यते स्थानकरणाभिघातपूर्वकं पुरुषेण प्रतिपाद्यते इति बचनम् । तदिदं परस्परविरुद्धम् अपौरुषेयं वचनं चेति । तदेवाह - असम्भवि न ह्यस्ति सम्भवो वचनस्य त्रस - रेणोरिवाकाशे । न चामूर्त्तस्य सतोऽप्यदर्शनमिति वक्तुं युक्तं प्रमाणाभावात् । अभिव्यञ्जकवशाच्छद्धश्रवण मेव प्रमाणमिति चेत् न । तस्य जन्यत्वेऽप्युपपत्तेः । अभिव्यङ्ग्यत्वे प्रत्युत दोषसम्भवः । एकशब्दाभिव्यक्त्यर्थ स्थान
h
द्वितीय प्रकाशः
॥१२२॥