________________
योग
शास्त्रम्
॥१२१॥
अगुरुलक्षणमाह—
सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥९॥ सर्वमुपदेश्यसम्बन्धिस्त्रीधनधान्यहिरण्यक्षेत्रवास्तु चतुष्पदाद्यभिलपन्तीत्येवंशीलाः सर्वाभिलाषिणः । तथा सर्व मद्यमधुमांसानन्तकायादि भुञ्जत इत्येवंशीलाः सर्वभोजिनः । सह परिग्रहेण पुत्रकलत्रादिना वर्त्तन्ते सपरिग्रहाः । अत एवाब्रह्मचारिणः, अब्रह्मणो महादोषतां कथयितुमब्रह्मचारिण इति पृथगुपन्यासः । अगुरुत्वे असाधाणं कारणमाह - मिथ्योपदेशा इति, मिथ्या वितथ आप्तोपज्ञोपदेशरहितत्वादुपदेशो धर्मदेशनं येषां ते तथा । न तु नैव एवंविधा गुरव इति ॥ ९ ॥
न धर्मोपदेशदायित्वं चेदस्ति तदास्तु गुरुत्वं किं निष्परिग्रहित्वादिगुणगवेषणेन ? इत्याहपरिग्रहारम्भमग्नास्तारयेयुः कथं परान् ? । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ ११ ॥
परिग्रहस्यादिरारम्भो जन्तुहिसानिबन्धनं सर्वाभिलाषित्व सर्वभोजित्वादिः ताभ्यां मग्ना भवान्धौ ब्रुडिताः कथं परानुपदेश्यान् भवाम्भोधेस्तारयेयुस्तारणसमर्थाः स्युः ? । साधकं दृष्टान्तमाह - स्वयमित्यादि स्पष्टम् ॥१०॥
धर्मलक्षणमाह
दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्व्वज्ञोक्को विमुक्तये ॥११॥ दुर्ग नरकतिर्यगुलक्षणायां प्रपतन्तो ये प्राणिनस्तेषां धारणाद्धेतोर्द्धर्म उच्यते । धर्मशब्दार्थोऽयं । इदमेव च
DOSTOOREE SHEERONORCE
द्वितीय प्रकाशः
॥ १२१ ॥