SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् द्वितीय प्रकाशा ॥१२०॥ वीतरागस्तोत्रेऽप्युक्तमस्माभिः । कृतार्था जठरोपस्थदुःस्थितैरपि दैवतैः । भवादृशानिहनुवते हहा देवास्तिकाः परे ॥१८॥७॥ गुरुलक्षणमाहमहाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥८॥ महाव्रतानि अहिंसादीनि तानि धरन्तीति महाव्रतधराः । महाव्रतधारित्व एवार्य हेतुः धीरा इति, धैर्य ह्यापत्स्वप्यबैक्लव्यं तद्योगाद्धि अखण्डितमहाव्रतधरा भवन्ति । मूलगुणधारित्वमुक्त्वा उत्तरगुणधारित्वमाहभैक्षमात्रोपजीविन इति, भिक्षाणां समूहो भक्षं अनपानधर्मोंपकरणरूपं तन्मात्रमेवोपजीवन्ति लोकान पुनर्द्धनधान्यहिरण्यग्रामनगरादि । मूलगुणोत्तरगुणधारणकारणभूतगुणवत्त्वमाह-सामायिकस्था इति, समो रागद्वेषविकल आत्मा समस्य आयो विशिष्टज्ञानादिगुणलाभः समायः स एव सामायिकं “ विन्यादित्वादिकण्" तत्र तिष्ठन्तीति सामायिकस्थाः । सामायिकस्थो हि मूलगुणोत्तरगुणभेदभिन्नं चारित्रं पालयितुं क्षमः। एतद्यतिमात्रसाधारणलक्षणम् । गुरोस्तु असाधारणलक्षणं-धर्मोपदेशका इति, धर्म संवरनिजरारूपं यतिश्रावकसम्बन्धिभेदभिन्न वा उपदिशन्तीति धर्मोपदेशकाः । यदुक्तमस्माभिरभिधानचिन्तामणौ-"गुरुर्धर्मोपदेशक" इति गृणन्ति सद्भूतं शास्त्रर्थमिति गुरवः ॥८॥ ॥१२ou
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy