________________
द्वितीय प्रकाशा
योगशास्त्रम् ॥११९॥
न सर्वज्ञा न नीरागाः शङ्करब्रह्मविष्णवः । प्राकृतेभ्यो मनुष्येभ्योऽप्यसमञ्जसवृत्तितः ॥१॥ स्त्रीसङ्गः काममाचष्टे द्वेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौच च कमण्डलुः ॥२॥ गौरी रुद्रस्य सावित्री ब्रह्मणः श्रीसुरद्विषः । शचीन्द्रस्य रवे रत्नादेवी दक्षात्मजा विधोः ॥३॥ तारा बृहस्पतेः स्वाहा वह्नश्चेतोभुवो रतिः । धूमोर्णा श्राद्धदेवस्य दारा एवं दिवौकसाम् ॥४॥ सर्वेषां शस्त्रसम्बन्धः सर्वेषां मोहज़म्भितम् । तदेवं देवसन्दोहो न देवप वीं स्पृशेत ॥५॥ बुद्धस्यापि न देवत्वं मोहाच्छून्याभिधायिनः । प्रमाणसिद्ध शून्यत्वे शून्यवादकथा वृथा ॥६॥ प्रमाणस्यैव सत्त्वेन न प्रमाणविवर्जिता । शून्यसिद्धिः परस्यापि न स्वपक्षस्थितिः कथम् ? ॥७॥ सर्वथा सर्वभावेषु क्षणिकत्वे प्रतिश्रुते । फलेन सह सम्बन्धः साधकस्य कथं भवेत् ॥८॥ वधस्य वधको हेतुः कथं क्षणिकवादिनः । स्मृतिश्च प्रत्यभिज्ञा च व्यवहारकरी कथम् ॥९॥ निपत्य ददतो व्याघ्रयाः स्वकार्य कृमिसङ्कलम् । देयादेयविमूढस्य दया बुद्धस्य कीदृशी ॥१०॥ स्वजन्मकाल एवात्मजनन्युदरदारिणः । मांसोपदेशदातुश्च कथं शौद्धोदनेदया ॥११॥ यो ज्ञानं प्रकृतेर्द्धर्म भाषते स्म निरर्थकम् । निर्गुणो निष्क्रयो मूढः स देवः कपिल कथम् ॥१२॥ आर्याविनायकस्कन्दसमीरणपुरस्सराः। निगद्यन्ते कथं देवा । सर्वदोषनिकेतनम् ॥१३॥ या पशुगूथमश्नाति स्वपुत्रं च वृषस्यति । श्रृङ्गादिभिघ्रती जन्तून् सा वन्द्यास्तु कथं नु गौः ॥१४॥ पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् ? । विशेषो दृश्यते नास्यां महिषीतो मनागषि ॥१५॥ स्थानं तीर्थर्षिदेवानां सर्वेषामपि गौर्यदि। विक्रियते दुह्यते च हन्यते च कथं ततः॥१६॥ मुसलोखले चुल्ली देहली पिप्पलो जलम् । निम्बोऽकश्चापि यैः प्रोक्ता देवास्तैः केऽत्र वर्जिताः ॥१७॥
॥११९॥