SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् mા ये स्त्रीशस्त्रसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युर्न मुक्तये ॥६॥ स्त्री कामिनी, शस्त्रं शूलादि, अक्षसूत्रं जपमाला, तान्यादौ येषां नाटयाट्टहासादीनां ते स्त्रीशस्त्राक्षसूत्रादयः राग आदिर्येषां ते रागादयः आदिशब्दाद् द्वेपमोहपरिग्रहः, रागादीनामङ्काचिह्नानि, स्त्रीशखाक्षसूत्रादयश्च ते रागाद्यङ्काश्च तैः कलङ्किता दुषितास्तत्र स्त्री रागचिनं शस्त्रं द्वेपचिहनं अक्षसूत्रं मोहचिह्नम् । वीतरागो हि नाङ्गनासङ्गभाग्भवति । वीतद्वेषो वा कथं शस्त्रं विभृयात् । गतमोहो वा कथं विस्मृतिचिह्नं जपमालां परिगृद्धियात् । रागद्वेषमोहैः सर्वदोषाः संगृहीतास्तन्मूलत्वात्सर्वदोषाणाम् । निग्रहो वधबन्धादिः, अनुग्रहो वरप्रदानादिः, तौ परौ प्रकृष्टौ येषां ते तथा । निग्रहानुग्रहावपि रागद्वेषयोश्चि । ये एवंविधास्ते देवा न भवन्ति मुक्तये इति मुक्तिनिमित्तम् । देवत्वमात्रं तु क्रीडनादिकारिणां प्रेतपिशाचादीनामिव न वार्यते ॥६॥ मुक्तिनिमित्तत्वाभावमेव व्यनक्ति नाटयाट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ॥७॥ इह सकलसांसारिकोपप्लवरहितं शान्तं पदं मुक्तिकैवल्यादिशब्दाभिधेयमस्तीत्यत्र नास्ति विप्रतिपत्तिः । तादृशं शान्तं पदं नाटयाट्टहाससङ्गीतादिविसंस्थुलाः स्वयमुपहतवृत्तयः कथमाश्रितजनान् प्रापयेयुः । न हयेरण्डतरुः कल्पतरुलीलामुद्वहति । ततश्च रागद्वषमोहदोषविवज्जितो जिन एको देवो मुक्तये नेतरे दोषदुषिताः । अत्रान्तरश्लोकाः द्वितीय प्रकाशः uku
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy