________________
योगशास्त्रम् ॥११७॥
द्वितीय प्रकाश
ननचतुर्विंशदतिशयादियोगिनं भगवन्तं श्रीमहावीरमनुध्यातवान् । तदनुभावाच्च तद्वर्णप्रमाणसंस्थानसंहननातिशययुक्तः पद्मनाभस्तीर्थकरो भविष्यति । यदाचक्ष्महि
तह तम्मएण मणसा वीरजिणो झाइयो तए पुब्बिं । जह तारिसो च्चिय तुम अहेसि ही जोगमाहप्पं ॥१॥ आगमश्च२जस्सीलसमायारो अरिहा तित्थंकरो महावीरो। तस्सीलसमायारो होहि हु अरिहा महापउमो ॥२॥
उपास्यः सेवाञ्जलिसंबन्धादिना अयमेव देवः दुष्कृतगर्हासुकृतानुमोदनापूर्वकमयमेव देवो भवभयातिभेदी शरणमिष्यताम् । अस्यैवोक्तलक्षणस्य देवस्य शासनमाज्ञा प्रतिपत्तव्यं स्वीकरणीयम् । शासनान्तराणि हि निरतिशयपुरुषप्रणेतृकाणि न प्रतिपत्तियोग्यानि । चेतनास्ति चेदित्यधिक्षेपः चेतनावत एव प्रत्युपदेशस्य सफलत्वात् । अचेतनं तु प्रति विफलं उपदेशप्रयासः । यदाह
अरण्यरुदितं कृतं शवशरीरमुर्तितं, श्वपुच्छमवनामितं बधिरकर्णजापः कृतः। स्थले कमलरोपणं सुचिरम्परे वर्षणं, तदन्धमुखमण्डनं यदबुधे जने भाषितम् ॥१॥५॥
___ अदेवलक्षणमाह(१) तथा तन्मयेन मनसा वीरजनो ध्यातस्त्वया पूर्वम् । यथा तादृश एव त्वमासीः ही योगमाहात्म्यम्। (२) यच्छीलसमाचारो अईन तीर्थकरो महावीरः । तच्छीलसमाचारो भविष्यति खलु अहन् महापद्मः॥
॥११
॥