________________
योगशास्त्रम्
॥१९६॥
जितरागादिदोष इत्यनेनापायापगमातिशयमाह । तत्रेदं सर्वजनप्रतीतम् यथा सन्ति रागद्वेषादयः । ते च दोषास्तैरात्मनो दुषगात् । ते च जिताः प्रतिपक्षसेवनादिभिर्भगवतेति जितरागादिदोष इत्युक्तम् । सदा रागादिरहित एव कश्चित्पुरुषविशेषोऽस्तीति तु वार्त्तामात्रम् । अजितरागादेश्वाम्मदादिवन्न देवत्वमिति । त्रैलोक्यपूजित इत्यनेन पूजातिशयमाह । कतिपयप्रतारितमुग्धबुद्धिपूजायां हि न देवत्वं स्यात् । यदा तु चलितासनैः सुरासुरैर्नाना देशभाषाव्यवहारविसंस्थुलैर्मनुष्यैः परस्परनिरुद्धवैरैः सख्यमुपागतैस्तिर्यग्भिश्च समवसरणभूमिमभिपतद्भिरहमहमिकया सेवाञ्जलिपूजा गुणस्तोत्रधर्म देशनामृतरसास्वादादिभिः पूज्यते भगवान् तदा देवत्वमिति । यथास्थितार्थवादीत्यनेन वागतिशयः यथास्थितं सद्भूतमर्थ वदतीत्येवंशीलो यथास्थितार्थवादी । यदाचक्ष्महि स्तुतौअपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्वन्धरसं परेषाम् ॥१॥
यथा वा
क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा, तवांघ्रि पीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं, परैः कथङ्कारमप करिष्यते ॥२॥
देव इति लक्ष्यपदं दीव्यते स्तूयते इति देवः स च सामर्थ्यादर्द्दन् परमेश्वरो नान्यः || ४ || चतुरतिशयवतो देवस्य ध्यानोपासनशरणगमनशासनप्रतिपत्तीः साधिक्षेपमुपदिशतिध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥ ५ ॥ अयं देवो ध्यातव्यः पिण्डस्थपदस्थरुपस्थरूपातीत रूपतया श्रेणिकेनेव । श्रेणिको हि वर्णप्रमाणसंस्थानसंह
द्वितीय
प्रकाशः
॥१९६॥