________________
योगशास्त्रम् ॥११५॥
द्वितीय प्रकाशन
मिथ्यात्वेनालीढचित्ता नितान्तं, तत्त्वातत्त्वं जानते नैव जीवाः ।
किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ॥३॥ देवादेवगुर्वगुरुधर्माधर्मेषु लक्षयितव्येषु देवलक्षणमाह-- | सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥४॥
देवस्य देवत्वे चतुरोऽतिशयानाचक्षते विचक्षणाः । तद्यथाज्ञानातिशयः १ अपायापगमातिशयः २ पूजातिशयः ३ वागतिशयश्च ४ । तत्र सर्वज्ञ इत्यनेन सकलजीवाजीवादितत्त्वज्ञतया ज्ञानातिशयमाह । न तु यथाहुर्विशृङ्खलवादिनः परे।।
सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥१॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेतान् गृध्रानुपास्महे ॥२॥ इति ॥ न हि विवक्षितस्यैकस्यापीष्टस्यार्थस्य ज्ञानमशेषार्थज्ञानमन्तरेण भवति । सर्वे हि भावा भावान्तरैः साधारणासाधारणरूपा १इत्यशेषज्ञानमन्तरेण २सालक्षण्यवैलक्षण्याभ्यां नैकोऽपि ज्ञातो भवति । यदाहुः
एको भावः सर्वथा येन दृष्टः, सर्वे भावास्तच्चतस्तेन दृष्टाः ।
सर्वे भावाः सर्वथा येन दृष्टा, एको भावस्तत्त्वतस्तेन दृष्टः ॥१॥ (१) इत्यशेषज्ञतामन्तरेण । (२) लक्षणसहितस्य भावः सालक्षण्यम् ।
सर्व पश्यतु वा मा वा तामष्टं तु पश्यतु । प्रमाण रण भवति । सर्वे हि