________________
योगशास्त्रम् ॥११४।
द्वितीय प्रकाशः
पर्ययादिति तस्य सम्यक्त्वस्य विपर्ययः तस्माद्धेतोः सम्यक्वविपर्ययरूपत्वादित्यर्थः । तथा च इदमपि संगृहीतं-देवे अदेवत्वस्य गुरावगुरुत्वस्य धर्म अधर्मत्वस्य प्रतिपत्तिरिति ।। मिथ्यात्वं च पश्चया आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगिकं च ।। तत्राभिग्रहिकं पाखण्डिनां स्वस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति ॥१॥ अनाभिग्रहिकं तु प्राकृतलोकानां सर्वे देवा वन्दनीया न निन्दनीया एवं सर्वे गुरवः सर्वे धर्मा इति ॥२॥ आभिनिवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशलेशविप्लावितधियो जमालेरिव भवति ॥३॥ सांशयिकं देवगुरुधर्मेष्वयमयं वेति संशयानस्य भवति ॥४॥ अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषविज्ञानविकलस्य भवति ॥५॥ यदाह
आभिग्गहिय २अणभिग्गहं च तह अभिणिवेसियं चेव । संसइयमणाभोग मिच्छत्तं पंचहा होइ ॥१॥ अत्रान्तरश्लोकाःमिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रुर्मिथ्यात्वं परमं विषम् ॥१॥
जन्मन्येकत्र दुःखाय रोगो ध्वान्तं रिपुर्विषम् । अपि जन्मसहखेषु मिथ्यात्वमचिकित्सितम् ॥२॥ (१) आभियहिकमनभिग्रहं च तथा अभिनिवेशिकं चैव । सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति ।। (२) अणभिग्गहियं ।
१११४॥