________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥११३॥
दो वारे विजयाइसु गयस्स तिण्णच्चुए अहव ताई । अइरेग नरभवियं नाणाजीवाण सव्वद्धं ॥१॥ क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च निर्मूलनाशः । क्षयः प्रयोजनमस्य क्षायिकं तच साधनन्तम् । अत्र चान्तरश्लोकाः
मूल बोधिमस्यैतत् द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य निधानं सर्वसम्पदाम् ॥१॥ गुणानामेक आधारो रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य सम्यक्त्वं श्लाध्यते न कैः ॥२॥ अवतिष्ठेत नाज्ञानं जन्तौ सम्यक्त्ववासिते । प्रचारस्तमसः कीदृक् भुवने भानुभासिते ॥३॥ तिर्यनरकयोभरे दृढा सम्यक्त्वमर्गला। देवमानवनिर्वाणसुखद्वारैककुश्रिका ॥४॥ भवेद्वैमानिकोऽवश्यं जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो बद्धायुर्वापि नो पुरा ॥५॥
अन्तर्मुहूर्तमपि यः समुपास्य जन्तुः, सम्यक्त्वरत्नममलं विजहाति सधः।
बम्भ्रम्यते भवपथे सुचिरं न सोऽपि तबिभ्रतश्चिरतरं किमुदीरयामः ॥६॥ इति ॥ विपक्षज्ञाने सति विवक्षितं सुज्ञान भवतीति सम्यक्त्वविपक्ष मिथ्यात्वमाहअदेवे देवबुद्धिर्या गुरुधीरगुरौ च या। अधर्म धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥३॥
अदेवोऽगुरुरधर्मश्च वक्ष्यमाणलक्षणस्तत्र देवत्वगुरुत्वधर्मत्वप्रतिपत्तिलक्षणं मिथ्यात्वं तस्य लक्षण तद्वि(१) द्वौ वारो विजयादिषु गतस्य त्रीन् अच्युतेऽथवा तान् । अतिरेकं नरभविकं नानाजीवानां सर्वार्टम ॥
॥११३॥