________________
योगशास्त्रम्
રા
द्वितीय प्रकाश
ष्विति यतिश्रावकाणां साधारणं सम्यक्त्वलक्षणमुक्तम् । तथापि गृहस्थनां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्वलक्षणोपयोगवशाद् देवगुरुधर्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं पुनरभिहितम् । ननु तत्त्वार्थरुचिलक्षणे सम्यक्त्वे देवगुरुधर्माणां क तत्त्वेऽन्तर्भावः ? उच्यते-देवा गुरवश्च जीवतत्त्वे, धर्मः शुभाश्रवे संवरे चान्तर्भवति । सम्यक्त्वं च त्रिधा-औपशमिकं क्षायोपशमिकं क्षायिकं च । तत्रोपशमो भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च क्रोधमानमायालोभानामनुदयावस्था । उपशमः प्रयोजनं प्रवर्तकमस्य औपशमिकं, तच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तीहूर्तिकं चतुर्गतिगतस्यापि जन्तोर्भवतीत्युक्तप्रायम् । यद्वा उपशमश्रेण्यारूढस्य भवति । यदाह१उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अ खवियमिच्छो लहइ सम्म ॥१॥
क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च उदितानां देशतो निर्मूलनाशः अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः स प्रयोजनमस्य क्षायोपशमिकं, तच्च सत्कर्मवेदनाद्वेदकमप्युच्यते । औपशमिकं तु सत्कर्मवेदनारहितमित्यौपशमिकक्षायोपशमिकयोर्भेदः। यदाह
श्वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ उण वेएइ न संतकम्मं वि । एतस्य च स्थितिः षट्षष्टिः सागरोपमाणि साधिकानि । यदाह(१) उपशमकश्रेणिगतस्य भवति औपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञ्जश्च क्षपितमिथ्यो लभते सम्यक।। (२) वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ।।
॥११२॥