________________
योगशास्त्रम्
अहम्
द्वितीय प्रकाशा
द्वितीयः प्रकाशः।
॥१२॥
गृहिधर्माय कल्पत इत्युक्तं गृहिधर्मच श्रावकधर्मः स च सम्यक्त्वमूलानि द्वादश व्रतानि तान्येवाह-- सम्यक्त्वमूलानि पञ्चाणुव्रतानि गुणास्त्रयः। शिक्षापदानि चत्वारि व्रतानि गृहमेधिनाम् ॥१॥
सम्यक्त्वं मूलं कारणं येषां तानि सम्यक्त्वमूलानि । अणूनि महाव्रतापेक्षया लघूनि व्रतानि अहिसादीनि पञ्च एतानि मूलगुणाः । गुणास्त्रय उत्तर गुणरूपाः ते च गुणव्रतानि दिग्वतादीनि त्रीणि । शिक्षणं शिक्षा अभ्यासः शिक्षायै पदानि स्थानानि चत्वारि सामायिकादीनि प्रतिदिवसाभ्यसनीयानि तत एव गुणवतेभ्यो भेदः। गुणब्रतानि हि प्रायो यावज्जीविकानि गृहमेधिनां श्रावकाणाम् ॥१॥
सम्यक्त्वमूलानीत्युक्तं तत्र सम्यक्त्वं विभजतिया देवे देवताबुद्धिगुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥२॥
या देवे गुरौ धौ च वक्ष्यमाणलक्षणे देवत्वगुरुत्वधर्मत्वबुद्धिरयमेव देवो गुरुर्धर्म इति निश्चयपूर्वा रुचिः श्रद्धानमिति यावत्, शुद्धा अज्ञानसंशयविपर्यासनिराकरणेन निर्मला सा सम्यक्त्वम् । यद्यपि रुचिजिनोक्ततत्वे
॥११॥