SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् utu तथा वशीकृतः स्वच्छन्दतां त्याजित इन्द्रियग्रामो हृषीकसमूहो येन स तथा । अत्यन्तासक्तिपरिहारेण स्पर्शनादीन्द्रियविकारनिरोधकः । इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति । यदाह आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदां मार्गों येनेष्टं तेन गम्यताम् ॥१॥ इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गीय नरकाय च ॥२॥ सर्वथेन्द्रियनिरोधस्तु यतीनामेव धर्म्म इह तु श्रावकधर्मो चितगृहस्थस्वरूपमेवाधिकृतमित्येवमुक्तम् ||३५|| एवंविधगुणसमयो मनुष्यो गृहिधर्म्माय कल्पते अधिकृतो भवतीति ॥५६॥ इति परमाईत श्री कुमारपाल भूपालशुश्रूषिते आचार्यश्री हेमचन्द्रविरचितेऽध्यात्मोपन्निपन्नाम्नि सञ्जातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं प्रथमप्रकाशविवरणम् । योगस्वरूपम् માના
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy