________________
योग
शास्त्रम्
॥१०९॥
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः ॥ १ ॥ ३१ ॥ तथा सौम्योऽक्रूराकारः, क्रूरो हि लोकस्योद्वेगकारणम् ||३२||
तथा परोपकृतौ परोपकारे कर्म्मठः कर्म्मश्ररः कर्म्मणि घटते " तत्र घटते कर्म्मणष्ठः” ॥७|१|१३७॥ इति ठः, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ||३३||
तथा अन्तरङ्गश्वासावरिषड्वर्गस्तस्य परिहारोऽनासेवनं तत्र परायणस्तत्परः । तत्रायुक्तितः प्रयुक्ताः कामक्रोध लोभमानमदहर्षाः शिष्टगृहस्थानामन्तरङ्गोऽरिषड्वर्गः । तत्र परपरिगृहीतास्वनूढासु वा स्त्रीषु दुरभिसन्धिः कामः । परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः । दानार्हेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः । कुलबलैश्वर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः । निर्निमित्तं परदुःखोत्पादनेन स्वस्य द्यूतपापद्धर्याद्यनर्थसंश्रयेण वा मनःप्रमोदो हर्षः । एतेषां च परिहार्यत्वमपायहेतुत्वात् । यदाह
दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश करालश्च वैदेहः १ । क्रोधाज्जनमेजयो ब्राह्मणेषु विक्रान्तस्तालजङ्घश्च भृगुषु २ । लोभादैलञ्चातुर्वर्ण्यमभ्याहारायमाणः सौवीरश्चाजबिन्दुः ३ । मानाद्रावणः परदारानप्रयच्छन् दुर्योधनो राज्याभ्रंशं च ४ । मदादम्भोद्भवो भूतावमानी हैहयश्चार्जुनः ५ । हर्षाद्वातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घव द्वैपायन ६ मिति ||३४||
योगस्वरूपम्
užા