________________
योग
शास्त्रम्
॥१०८
तथा दीर्घकालभावित्वाद्दीर्घमर्थमनर्थे च पश्यत पर्यालोचयतीत्येवंशीलो दीर्घदर्शी ॥ २६ ॥
तथा वस्त्ववस्तुनोः कृत्याकृत्योः स्वपरयोर्विशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः, अविशेषज्ञो हि पुरुषः पशोर्नातिरिच्यते अथवा विशेषमात्मन एव गुणदोषाधिरोहलक्षणं जानातीति विशेषज्ञः । यदाहप्रत्यहं प्रत्यवेक्षेत नरश्वरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं तु सत्पुरुपैरिति ॥ १ ॥ २७ ॥
तथा कृतं परोपकृतं जानाति न निह्नुते कृतज्ञः, एवं हि तस्य कुशललाभो यदुपकारिणो बहु मन्यते, कृतघ्नस्य तु निष्कृतिरेव नास्ति । यदाह
" कृतघ्ने नास्ति निष्कृतिरिति" ||२८||
तथा लोकानां विशिष्टजनानां विनयादिगुणैर्वभः प्रियः । को हि गुणवतः प्रति प्रीतो न भवति । यस्तु न लोकवल्लभः स न केवलमात्मानं स्वस्य धर्मानुष्ठानमपि परैर्देषयन् परेषां बोधिलाभ शहेतुर्भवति ॥२९॥ तथा लज्जा वैयात्याभावः सह लज्जयः सलज्जा । लज्जावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति । यदाहलज्जां गुणौघजननीं जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्त्तमानाः ।
तेजस्विनः सुखमनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् || १ ||३०||
तथा सह दयया दुःखितजन्तुदुःखत्राणाभिलाषेण वर्त्तत इति सदयः । धर्मस्य दया मूलमिति ह्यामनन्ति । तदवश्यं दयां कुर्वीत । यदाह
योग स्वरूपम्
॥१०८॥