________________
योगशास्त्रम्
योग स्वरूपम्
॥१०॥
रम्भः । स च नीचानां भवति । यदाह
दर्पः श्रमयति नीचानिष्फलनयविगुणदुष्करारम्भैः । श्रोतोविलोमतरणव्यसनिभिरायास्यते मत्स्यैः॥१॥ अनभिनिविष्टत्वं च कादाचित्कं शाठयानीचानामपि सम्भवत्यत आह । सदेति ॥२०॥
तथा गुणेषु सौजन्यौदार्यदाक्षिण्यस्थैर्यप्रियपूर्वप्रथमाभिभाषणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती । पक्षपातस्तु बहुमानतत्प्रशंसासाहाय्यकरणादिना अनुकूला प्रवृत्तिः। गुणपक्षपातिनो हि जीवा अवन्ध्यपुण्यवीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति ॥२१॥
तथा प्रतिषिद्धो देशोऽदेशः प्रतिषिद्धः कालोऽकालः तयोरदेशाकालयोश्चर्या चरण तां त्यजन् परिहरन् अदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमानोति ॥२२॥
तथा जानन् विदन् बलं शक्ति स्वस्य परस्य वा द्रव्यक्षेत्रकालभावकृतं सामर्थ्यम् । अबलमपि तथैव । बलाबलपरिज्ञाने हि सर्वः सफल आरन्भः अन्यथा तु विपर्ययः । यदाहस्थाने शमवतां शक्या व्यायामे वृद्धिरङ्गिनाम् । अयथावलमारम्भो निदानं क्षयसम्पदः ॥१॥इति॥२३॥
तथा वृत्तमनाचारपरिहारः सम्यगाचारपरिपालनं च, तत्र तिष्ठन्तीति वृत्तस्थाः । ज्ञानं हेयोपादेयवस्तुविनिश्चयस्तेन वृद्धा महान्तः । वृत्तस्थाश्च ते ज्ञानवृद्धाश्च तेषां पूजकः । पूजा च सेवाजल्यासनाभ्युत्थानादिलक्षणा। वृत्तस्थज्ञानवन्तो हि पूज्यमाना नियमात्कल्पतरव इब सदुपदेशादिफलैः फलन्ति ॥२४॥
तथा पोष्या अवश्यभर्तव्या मातृपितगृहिण्यपत्यादयस्तान् योगक्षेमकरणे. ५..यतीति पोषकः ॥२५॥
॥१०॥