________________
योगशानम्
योग
स्वरूपम्
॥१.६॥
धर्मायौँ सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विकमूलहरकदर्येषु धर्मार्थकामानामन्योऽन्यबाधा मुलभैव तथाहि
यः किमप्यसश्चिन्त्योत्पन्नमर्थमपव्येति स तदात्विकः । यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः यो भृत्यात्मपीडाभ्यामर्थ सचिनोति न तु कचिदपि व्ययते स कदर्यः। तत्र तादात्विकमूलहरयोरर्थभ्रशेन धर्मकामयोर्विनाशाम्नास्ति कल्याण । कदर्यस्य त्वर्थसंग्रहो राजदायादतस्कराणां निधिर्न तु धर्मकामयोर्हेतुरिति । अनेन च त्रिवर्गबाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् । यदा तु दैववशाबाधा सम्भवति, तदोत्तरोत्तरवाधायां पूर्वस्य पूर्वस्य बाधा रक्षणोया । तथाहि-कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतो कामस्य सुकरोत्पादकत्वात् । कामार्थयोस्तु बाधायां धर्मो रक्षणीयः धर्ममूलत्वादर्थकामयोः । उक्तं च
धर्मश्चेन्नावसीदेत कपालेनापि जीवतः । आढयोऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥१॥१८॥ तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम्तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागः विदुः ॥१॥
साधुः शिष्टाचाररतः सकललोकाऽवगीतः। दोनो दीङ्च् क्षय इति वचनात् क्षीणसकलधर्मार्थकामाराधनशक्तिः तेषु प्रतिपत्तिकृत् प्रतिपत्तिरुपचरोऽनपानादिरूपः । कथं यथावत् औचित्यानतिक्रमेण । यदाह
औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥११॥१९॥ तथा अनभिनिविष्टोऽभिनिवेशरहितः। अभिनिवेशश्च नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्या
॥१०६॥