________________
योगशास्त्रम् ॥१५॥
स्वरूपम्
अक्षुधितेन ह्यमृतमपि भुक्तं भवति विषम् । तथा क्षुत्कालातिक्रमादनद्वेषो देहसादश्च भवति। विध्यातेऽग्नौ कि नामेन्धनं कुर्यादिति ।
पानाहारादयो यस्याविरुद्धाः प्रकृतेरपि । सुखित्वायावकल्पन्ते तत्सात्म्यमिति गीयते ॥१॥
एवं लक्षणात्सात्म्यात् आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति । परमसात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यप्राप्तमप्यपथ्यम् । सर्व बलवतः पथ्यमिति मत्वा न कालकूटं खादेत् । सुशिक्षितोऽपि विषतन्त्रज्ञो म्रियत एव कदाचिद्विषात् ॥१७॥
तथा त्रिवर्गों धर्मार्थकामः तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः। यतः सर्वप्रयोजनसिद्धिः सोऽर्थः। यत आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः। ततोऽन्योऽन्यस्य परस्परं योऽप्रतिबन्धोऽनुपघातस्तेन त्रिवगमपि न त्वेकैकं साधयेत् । यदाह
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभव श्वसनपि न जीवति ॥१॥
तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् । न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः। धर्मकामातिक्रमादनमुपार्जितं परेऽनुभवन्ति स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् । अर्थकामातिक्रमेण च धर्मसेवा यातीनामेव धर्मो न गृहस्थानाम् । न च धर्म बाधयाऽर्थकामौ सेवेत । बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम् । स खलु सुखी योऽमुत्र सुखाविरोधेन इहलोकसुखमनुभवति । एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वम् । कामबाधया
॥१०॥
।