________________
योगशास्त्रम्
योगस्वरूपम्
॥१०४॥
मिदमि
एते
ति । यावाल्यन
तत्र शुश्रूषा श्रोतुमिच्छा । श्रवणमाकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । धारणमविस्मरणम् । ऊहो विज्ञात मर्थमवलम्ब्यान्येषु तथाविधेषु व्याप्त्या वितर्कणम् । अपोह उक्तियुक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात् प्रत्यपा यसम्भावनया व्यावर्त्तनम् । अथवा ऊहः समान्यज्ञानमपोहो विशेषज्ञानम् । अर्थविज्ञानमूहापोहयोगान्मोहसन्देहविपर्यासव्युदासेन ज्ञानम् । तत्त्वज्ञानमूहापोहविज्ञानविशुद्धमिदमित्थमेवेति निश्चयः । शुश्रूषादिभिर्हि उपाहितप्रज्ञाप्रकर्षः पुमान कदाचिदकल्याणमामोति । एते च बुद्धिगुणा यथासम्भवं द्रष्टव्याः ॥१४॥
तथा श्रृण्वानस्ताच्छील्येन धममभ्युदयनिःश्रेयसहेतुः श्रृण्वन् अन्वहं प्रतिदिनं धर्मश्रवणपरो हि मनः खेदाप नोदादिकमामोति । यदाह
क्लान्तमपोज्झति खेदं तप्तं निर्वाति बुद्धयते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥१॥ प्रत्यहं धर्मश्रवणं चोत्तरोत्तरर्गुणप्रतिपत्तिसाधनत्वात्प्रधानमिति श्रवणमात्राबुद्धिगुणादस्य भेदः ॥१५॥
तथा अजीर्णे अजरणे पूर्वभोजनस्य अथवा अजीर्णे परिपाकमनागते पूर्वभोजने नवं भोजनं त्यजतीत्येवंशीलः अजीर्णभोजने हि सर्वरोगमूलस्याजीर्णस्य वृद्धिरेव कृता भवति । यदाइ-"अजीर्णप्रभवा रोगा इति" अजीर्ण च लिङ्गतो ज्ञातव्यम् । यदाह
मलवातयोगिन्धो विभेदो गात्रगौरवमरुच्यम् । अविशुद्धश्चोगारः पडजीर्णव्यक्तलिङ्गानि ॥१॥१६॥
तथा काले बुभुक्षासमये भोक्ता अन्नायुपजीवकः । भोक्तेति साधौ तृन्, तेन लौल्यपरिहारेण यथाग्निबलं मितं भुञ्जीत । अतिरिक्तभोज हि वमनविरेचनमरणादिना न साधु भवति, यो हि मितं भुङ्क्ते स बहु भुक्ते ।
loણા