________________
योग
शास्त्रम्
॥१०३॥
तथा व्ययो भर्त्तव्यभरणस्वभोगदेवतातिथिपूजनादिप्रयोजने द्रव्यविनियोगः । आयः कृषिपाशुपाल्यवाणिज्यसेवादिजनितो द्रव्यलाभः तस्योचितमनुरूपं व्ययं कुर्वन् । यदाह -
१लाभोचियदाणे लभोचियभोगे लाभोचियनिहिकरे सिया । " आयोचितश्च व्ययश्चतुर्भागादितया कैश्चिदुच्यते । यदाह—
पादमायान्निधिं कुर्यात्पादं वित्ताय घट्टयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १॥ केचित्त्वाहु:आयादर्द्ध नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छ मेहिकम् ॥१॥ आयानुचितो हि व्ययो रोगमिव शरीरं कृशीकृत्य विभवसारमखिलव्यवहारासमर्थ पुरुषं कुर्वीत । उक्तं चआयव्ययमनालोच्य यस्तु वैश्रवणायते । अचिरेणैव कालेन सोऽत्र वै श्रमणायते || १ || १२ ||
64
तथा वेषो वस्त्रालङ्करणादिभोगः । दित्तं विभव उपलक्षणाद्वयोऽवस्था देशकालजात्यादिग्रहः । तदनुसारेण तदानुरूप्येण कुर्व्वन्निति सम्बद्ध्यते । विभवाद्यननुसारेण वेषं कुर्वतो जनोपहसनीयतातुच्छत्वान्यायसम्भावनादयो दोषाः । अथवा व्ययमायोचितं कुर्वन्नेव वेषं वित्तानुसारेण कुर्व्वन्नेवेत्यपरोऽर्थः । यो हि सत्यप्याये कार्पण्याद् व्ययं न करोति सत्यपि वित्ते कुचेलत्वादिधर्मा भवति । स लोकगर्हितो धर्मेऽप्यनधिकारीति ॥ १३॥ तथा अष्टभिर्धीगुणैर्युक्तः धियो बुद्धेर्गुगाः शुश्रूषादयः । ते त्वमी
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोsपं होऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ १॥ (१) लाभोचितदानं लाभोचितभोगो लाभाचित निधिकरः स्यात् ।
05050 hote
योग
स्वरूपम्
॥१०३॥