________________
योगशास्त्रम् ११०२॥
स्वरूपम्
यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥१॥ सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते। स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम्॥२॥
॥इति च ॥८॥ तथा माता जननी पिता जनकस्तयोः पूजकस्विसन्ध्यं प्रणामकरणेन परलोकहितानुष्टाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्त्या वर्णगन्धादिप्रधानस्य पुष्पफलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चानादीनमान्यत्र तदनुचितादिति । माता च पिता च मातापितरौ " आ द्वद्वे" ॥३२॥३९॥ इत्यात्वं मातुश्चाभ्यर्हितत्वात्पूर्वनिपातः । यन्मनु:
उपाध्याया दशाचार्य आचार्याणां शतं पिता । सहसं तु पितुर्माता गौरवेणातिरिच्यते ॥१॥९॥
तथा त्यजन् परिहरन उपप्लुतं स्वचक्रपरचक्रविरोधादुर्भिक्षमारीतिजनविरोधादेश्चास्वस्थीभूतं यत् स्थानं ग्राम नगरादि । अत्यज्यमाने हि तस्मिन् धर्मार्थकामानां पूोजितानां विनाशेन नवानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् ॥१०॥
तथा गर्हित देशजातिकुलापेक्षया निन्दितं कर्म तत्राप्रवृत्तः। देशगर्हितं यथा-"सौवीरेषु कृषिकर्म । लाटेषु मद्यसन्धानम् ।
जात्यपेक्षया यथा-ब्राह्मणस्य सुरापानं तिललवणादिविक्रयश्च । कुलापेक्षया यथा-चौलुक्यानां मद्यपानम् गर्हितकर्मकारिणो हि शेषमपि धर्म्य कर्मोपहासाय भवति ॥११॥