________________
योग
योगशास्त्रम् ॥१०१
वर्णवादाद्धि वित्तप्राणनाशनादिरपि दोषः स्यात् ॥६॥
तथा अनेक बहु यनिर्गमद्वारं उपलक्षणत्वात्तदेव च प्रवेशद्वारं तेन विवर्जितं निकेतनं यस्य स तथा । बहुषु हि निर्गमप्रवेशद्वारेष्वनुपलक्ष्यमाणनिर्गमप्रवेशानां दुष्टलोकानामापाते स्वीद्रविणादिविप्लवः स्यात् । अत्र चानेकद्वारतायाः प्रतिषेधेन विधिराक्षिप्यते । ततः प्रतिनियतद्वारसुरक्षितगृहो गृहस्थः स्यादिति लभ्यते । तथाविधमपि निकेतनं स्थान एव निवेशयितुं युक्तं नास्थाने । स्थानं तु शल्यादिदोषरहितं बहुलप्रवालकुशस्तम्बप्रशस्तवर्णगन्धमृत्तिकासुस्वादुजलोद्गमनिधानादिमच्च । स्थानगुणदोषपरिज्ञानं च शकुनस्वप्नोपश्रुतिप्रभृतिनिमित्तादिवलेन । स्थानमेव विशिनष्टि-अतिव्यक्तमतिप्रकटमतिगुप्तमतिप्रच्छन्नं तन्निषेधादनतिव्यक्तगुप्तम् । तत्र अतिव्यक्त यसन्निहितगृहान्तरतया परिपार्श्वतो निरावरणतया चौरादयोऽभिभवेयुः। अतिगुप्ते च सर्वतो गृहान्तरैनिरुद्धत्वान्न स्वशोभां लभते, प्रदीपनकायुपद्रवेषु च दुःखनिर्गमप्रवेशं गृहं भवति । पुनः कथंभूते स्थाने ? सुप्रतिवेश्मिके शोभनाः शीलादिसम्पन्नाः प्रातिवेश्मिका यत्र । कुशीलपातिवेश्मिकत्वे हि तदालापश्रवणतच्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानिः स्यात् । दुष्प्रातिवेश्मिकास्त्वेते शाखप्रतिषिद्धाः
१खरियातिरिक्खजोणीतालायरसमणमाहणसुसाणा । वग्गुरिअवाहगुम्मियहरिएसपुलिदमच्छंधा ॥ १ ॥७॥
तथा कृतः सङ्गो येन स कृतसङ्गः सन् शोभन आचार इहपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तै तु कितवर्तविटभट्टभण्डनटादिभिस्तत्सङ्गे हि सदपि शीलं विलीयेत । यदाह१ खरिका (दासी) तिर्यग्योनितालाचरश्रमणब्राह्मणस्मशानाः । वागरिकव्याधगौल्मिकहरिकेशपुलिन्द्रमत्स्यन्धाः॥१॥
Nil॥२०१५