________________
योगशास्त्रम्
योग स्वरूपम्
uooll
चाप्रामाण्यात्परस्परानुरागेण मिथः समवायादगान्धर्बः ६ । पणबन्धेन कन्याप्रदानमासुरः ६। प्रसा कन्याग्रहणा द्राक्षसः ७ । सुप्तप्रमत्तकन्याग्रहणात्पैशाचः ८ । एते चत्वारोऽप्यधाः । यदि वधूवरयोः परस्परं रुचिरस्ति तदा अधा अपि धाः । शुद्धकलत्रलाभफलो विवाहः । अशुद्धभार्यादियोगेन नरक एव । तत्फलं वधूरक्षणमाचरतः सुजातसुतसन्ततिरनुपहता चित्तनिवृत्तिडकृत्यमुविहितत्वमाभिजात्याचारविशुद्धत्वं देवातिथिबान्धवसत्कारानवद्यत्वं चेति । वधूरक्षणोपायास्त्वेते-गृहकमविनियोगः १ परिमितोऽर्थसंयोगो २ ऽस्वातन्त्र्यम् ३ सदा च मातृतुल्यस्त्रीलोकावरोधन ४ मिति ॥३॥ पापानि दृष्टादृष्टापायकारणानि कर्माणि तेभ्यो भीरुः । तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वद्यूतरमणादीनि इहलोकेऽपि सकललोकप्रसिद्धविडम्बनास्थानानि । अदृष्टापायकारणानि मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि ॥४॥ __ प्रसिद्धः तथाविधापरशिष्टसम्मततया दुरं रूढिमागतः। देशाचारो भोजनाच्छादनादिचित्रक्रियात्मकः सकलमण्डलव्यवहारस्तं सम्यगाचरन्, तदाचारातिलङ्घने हि तद्देशवासिजनतया विरोधसम्भावनादकल्याणलाभः स्यात् ।।
अवर्णोऽश्लाघा तं वदतीत्येवंशीलोऽवर्णवादी न कापि जघन्योत्तममध्यमभेदेषु जन्तुषु । परावणवादी हि बहुदोषः । यदाहपरपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥१॥
तदेवं सकलजनगोचरोऽप्यवर्णवादो न श्रेयान् । किं पुना राजामात्यपुरोहितादिषु बहुजनमान्येषु । राजाद्य
Hlboll